________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........ व्याख्यान [२] ........... मूलं [१८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत सूत्रांक
कल्प.सुबोव्या०१ ॥२६॥
[१८]
गाथा
||१..||
तच नीचर्गानं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, तथाहि-प्रथमभये पश्चिममहाविदेहे श्रीवीरस नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतः, तत्र मध्याहे भोजनसमये सार्थभ्रष्टान् साधून दृष्ट्वा २७ भवाः हष्टश्चिन्तितवान-अहो मे भाग्य! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधवोऽशनपाना-181 दिभिः प्रतिलम्भिताः, पश्चाभोजनानन्तरं साधून नत्वा उवाच-चलन्तु महाभागा! मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधुभियोग्योऽयमिति धर्मोपदेशेन सम्यक्तवं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्वा द्वितीयभवे सौधर्मदेवलोके पल्योपमायुर्देचो जातः, ततश्युत्वा तृतीयभषे मरीचिनामा भरतचक्रवर्तिपुत्रो जाता, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्श्वे प्रवजितः स्थविरपाचे एकादशाङ्गीं अधीतच, एकदा च ग्रीष्मकाले तापादिपीडितश्चिन्तितवान्-अतिदुष्करोऽयं संयमभारो मया निवाई न शक्यते गृहे गमनं च सर्वथा अनचितं इति ध्यात्वाऽभिनवं वेषं रचितवान्, तथाहि-श्रमणास्त्रिदण्डविरताः अहं तु न तथा इति मम निदण्डं चिह्नमस्तु, श्रमणा द्रव्यभावाभ्यां मुण्डाः अहं तु न तथेति मम शिरसि चूडा क्षुरमुण्डन चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम तु स्थूलेभ्यः साऽस्तु, शीलसुगन्धाः साधवो २५ नाहं तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः अहं तु मोहाच्छादित इति मे छन्त्रकं ॥ २६॥ अस्तु, श्रमणा अनुपानधरणा: मम तु चरणयोरुपानद् अस्तु, श्रमणा निष्कषायाः अहं तु सकषाय इति इति मम काषाय्यं वस्त्रं अस्तु, श्रमणाः स्नानाद्विरताः मम तु परिमितजलेन लानं पानं चास्तु, एवं खवुझ्या
दीप
अनुक्रम [१८]
... अथ भगवन्त महावीरस्य भावानां वर्णनं आरभ्यते
~70~