SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] .......... मूलं [१८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८] गाथा ||१..|| तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवति, अत्रावसर्पिण्यां च मिथिलापतिकुम्भराजस्य पुत्री मल्लिनाम्नी 8 एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीति आश्चर्य (३) 'अभाविया परिस'त्ति अभाविता पर्षद, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानखामिना प्रथमसमव-| सरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात इत्याश्चर्य (४) 'कण्हस्स'त्ति कृष्णस्यनवमवासुदेवस्य द्रौपदीनिमित्तं अपरकङ्कागमनं आश्चर्य, तच्चैवं-पुरा किल पाण्डवभार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्टे पातनार्थ धातकीखण्डभरते अपरक राजधानीप्रभोः पश्चोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवेन द्रौपदी स्वगृहं आना|यिता, इतश्च पाण्डवमात्रा कुत्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो लब्धः, ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकङ्का गतः, तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रौपदीवचसा जीवन्तं मुक्त्वा च द्रौपद्या| सह पश्चाद्वलितः, बलमानश्च शङ्ख आपूरितवान् , तच्छब्दं श्रुत्वा च तन्त्र विहरमानमुनिसुव्रतजिनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्ख आपूरितवान् , ततो मिथः शङ्खशब्दौ मिलितो, ततोऽस्यां अवसर्पिण्यां कृष्णस्य अपरकङ्कागमनं आश्चर्य (५) 'अवयरणं चंदसूराणति कायत कौशाम्व्यां भगवतः श्रीवर्धमानस्वामिनो वन्दनार्थं मूलविमानेन सूर्याचन्द्रमसौ उत्तीणों तदाश्चर्य (६) Sooraemrakaenerage20200302230 दीप अनुक्रम [१८] ~67~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy