SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ||..|| दीप अनुक्रम [१८] Jan Education int दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [२]........... मूलं [१८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: गौतम ! नायं 'जिनः, किंतु शरवणग्रामवासी मङ्खलेः सुभद्राभार्यायां गोबहुलब्राह्मणगोशालायां जातत्वात् गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एवं किञ्चिदू बहुश्रुतीभूतो मुधा खं जिन इति ख्यापयति, ततः सर्वतः प्रसिद्धां इमां वार्ता आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद्-भो आनन्द ! एकं दृष्टान्तं शृणु, यथा- केचिद्वणिजो धनोपार्जनाथ विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरण्यं प्रविष्टास्तत्र जलाभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, तत स्तैरेकं शिखरं स्फोटितं, तस्माद्विपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत एकेन वृद्धेनोक्तं सिद्धं अस्माकं समीहितं अथ मा स्फोटयन्तु द्वितीयं शिखरं इति निवारिता अपि द्वितीयं स्फोटयामासुस्तस्माच्च सुवर्ण प्राप्तवन्तः तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्तस्माद्रनानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थं अपि स्फोटयन्ति स्म, तस्माच प्रादुर्भूतेन दृष्टिविषसर्पेण सर्वेऽपि खदृष्टिपातेन पञ्चत्वं प्रापिताः, स हितोपदेशको वणिक् तु न्यायित्वात् आसन्नदेवतया स्वस्थाने मुक्तः, एवं तव धर्माचार्योऽपि एतावत्या खसम्पदा असन्तुष्टो यथातथाभाषणेन मां रोषयति, तेनाहं खतपस्तेजसा भक्ष्यामि, ततस्त्वं शीघ्रं तत्र गत्वा एनं अर्थं तस्मै निवेदय, त्वां च वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदग्रे सर्व व्यतिकरं कथितवान् ततो भगवता उक्तं-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय यत् एष गोशाल आगच्छति न केनास्य For Pride & Personal Use O ~65~ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy