________________
कल्प
सूत्र
प्रत
सूत्रांक
[२१०]
गाथा
॥२..॥
दीप
अनुक्रम [२०५]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [७] मूलं [२१०] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
ren
कल्प.सुबो- १) निष्पादयेत्यज्ञासमनन्तरमेव रत्नसुवर्णमय भवन पक्किप्राकारोपशोभितां नगरीमवासयत्, ततो भगवान् राज्ये व्या० ७ हस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्र भोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान्, तत्रोग्रदण्डकारित्वादुग्रा आरक्षकस्थानीयाः १ भोगार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इतिकृत्वा राजन्या वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पदुमफलुला भाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफल भोजिनोऽग्रेर भावा चापकशाल्याचीषधी भोजिनञ्चाभूवन्, कालानुभावासदजीर्णे व स्वल्पं खल्पतरं च भुक्तवन्तः, तस्याप्यजीर्णे भगवद्वचसा हस्ताभ्यां घृष्ट्वा त्वचं अपनीय भुक्तवन्तः तथाप्यजीर्णे प्रभूपदेशात् पत्रपुटे जलेन केदयित्वा तण्डुलादीन मुक्तवन्तः, एवमप्यजीर्ण कियतीमपि वेलां हस्ततलपुढे क्लेदयित्वा हस्ततलपुढे संस्थाप्य, पुनरप्यजीर्णे कक्षासु वेदयित्वा, तथाप्यजीर्णे हस्ताभ्यां दृष्ट्वा पत्रपुटे क्लेदयित्वा हस्ततलपुढे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः । एवं सत्येकदा द्रुमघर्षणान्न वोत्थितं प्रवृद्धज्वलज्ज्वालं तृणकलापं कवलयन्तं अग्निमुपलभ्याभिनवरत्नबुद्ध्या प्रसारितकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवता चग्निरुत्पति विज्ञाय भो युगलिका ! उत्पन्नोऽग्निः अत्र च शाल्यायौषधीर्निधाय भुङ्गध्वं यतस्ताः सुखेन जीर्यन्तीत्युपाये कथितेऽप्यनभ्यासात् सम्यगुपायं अजानाना औषधीरंनौ प्रक्षिप्य कल्पद्रोः फलानींव याचन्ते, अग्निना च ताः सर्वतो दह्यमाना दृष्ट्वा अयं पापात्मा वेताल इवातृप्तः खयमेव सर्वं भक्षयति नास्माकं किञ्चित् प्रयच्छतीत्यतोऽस्या
Jan Education Irmiston
For Pride & Personal Use On
~314~
अग्नेरुत्पतिः शिल्पदर्शनम्
२०
२५
॥१४८॥
२८