________________
कल्प
सूत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सत्राक
[१] गाथा |||
भवण्णवं गोअम! ते तरन्ति ॥ २॥ एवं च कल्पमहिमानं आकर्ण्य तपःपूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, सकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात्, यथा बीजं अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्ती समर्थ नान्यथा.एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाध|र्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः, अन्यथा-'इकोऽवि नमुक्कारो जिणवरवसहस्स बद्धमाणस्स। संसारसागराओ तारेइ नरं व नारिं वा ॥२॥ इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् । ___ अथ 'पुरुषविश्वासे वचन विश्वास' इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रवाहुखामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान् , तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जन लेख्यं १,द्वितीयं द्वाभ्यां तृतीयं चतुर्भिः ४.चतुर्थं अष्टाभिः ८,पञ्चमं षोडशभिः १३ षष्ठं द्वात्रिंशता ३२,सप्तमं चतुःषष्टया ६४.अष्टम अष्टाविंशत्यधिकशतेन १२८,नवर्म षट्पञ्चाशदधिकशतद्वयन २५६ दशमं द्वादशाधिकैः पञ्चभिः शतैः ५१२. एकादशं चतुर्विशत्यधिकेन सह- स्रण १०२४. द्वादशं अष्टचत्वारिंशदधिकया द्विसहरुया २०४८ त्रयोदशं षण्णवत्यधिकया चतुःसहख्या ४०९६, चतुर्दशं च अष्टसहरूया द्विनवत्युत्तरशताधिकया ८१९२, सर्वाणि पूर्वाणि पोडशभिः सहस्ररुयशीत्यधिकै| त्रिभिः शतेश्च १६३८३ हस्तिप्रमाणमषीपुजैर्लेख्यानि, तस्मान्महापुरुषप्रणीतखेन मान्यो गम्भीरार्थश्च, यत:
१ एकोऽपि नमस्कारो जिनववृषभस्य बर्द्धमानस्य । संसारसागरातू तारयति नरं वा नारी वा ॥ १॥
दीप
१
अनुक्रम
कन्य
.
स.
२
... कल्पसूत्रस्य कर्तारः नाम्न: एवं उद्धरनास्य वर्णनं क्रियते
~31~