________________
कल्प
सूत्र
प्रत
सूत्रांक
[१७२]
गाथा
॥२..॥
दीप अनुक्रम
[१७३]
कल्प. सुबो
व्या० ७
॥१३३॥
Jan Educaton in
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [१७२] / गाथा [२...]
........... व्याख्यान [७] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
नेमिं निरीक्ष्य शिवादेवी समवदत् - वत्सानुमन्यस्व पाणिग्रहणं पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत्, तत्र कौतुकोत्सुकैर्मित्रैविज्ञप्तोऽस्य कुलालचक्रवचकं भ्रामितवान् शार्ङ्ग धनुर्मृणालवन्नामितवान्, कौमोदकीगदां यष्टिवदुत्पाटितवान् पाञ्चजन्यं शङ्खं च स्वमुखे धृत्वा आपूरितवान् तदा चनिर्मूल्यालान मूलं व्रजति गजगणः, खण्डयन् वेश्ममालां, धावन्त्युत्रोटय बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः । शब्दाद्वैतेन सर्वं बधिरितमभवत्तत्पुरं व्यग्रमुग्रं श्रीनेमेक्लपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये ॥ १ ॥ तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमिं चकितो निजभुजबलुतुलनाय आवाभ्यां बलपरीक्षा क्रियते इति नेमिं वदंस्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिरोह-अनुचितं ननु भूलुठनादिकं, सपदि बान्धव । युद्धमिहावयोः । बलपरीक्षणकृद्ध जवालनं भवतु नान्यरणः खलु युज्यते ॥ १ ॥ द्वाभ्यां तथैव स्वीकृतं - कृष्णप्रसारितं बाहुं नेमिवेंत्रलतामिव । मृणालदण्डवच्छीघ्रं, वालयामास लीलया ॥ १ ॥ शाखानिभे नेमिजिनस्य बाहौ ततः स शाखामृगवद्वि- ६ २५ लग्नः । चक्रे निजं नाम हरियधार्थमुद्विषादद्विगुणासितास्यः ॥ २ ॥ ततो महतापि पराक्रमेण नेमिभुजेऽव| लिते सति विषण्णचिन्तः कृष्णो मम राज्यमेव सुखेन ग्रहीष्यतीति चिन्तातुरः स्वचित्ते चिन्तयामासक्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः ॥ १ ॥ अथवा
॥१३३॥
२८
For Pride & Personal Use On
बलपरिक्षा.
~ 284~
२०