________________
कल्प
सूत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सत्राक
[१] गाथा |||
पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः ५. ॥'वय'त्ति व्रतानि-महानतानि तानि च द्वाविंशतिजिनसाधूनां । चत्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगांसंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे | प्रत्याख्याते स्त्री प्रत्याख्यातेव, प्रथमचरमजिनसाधूनां तु तथाज्ञानाभावात् पञ्च व्रतानि इति षष्ठः ६॥ 'जिह'त्ति ज्येष्ठो-रत्नाधिकः स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः, तत्र आद्यान्तिमजिनयतीनां उपस्थापनातःप्रारभ्य दी-II क्षापर्यायगणना मध्यमजिनयतीनांच निरतिचारचारित्रत्वादीक्षादिनादेव, अथ पितापुत्रमातादुहितराजामात्य-18 श्रेष्ठिवणिकपुत्रादीनांसाई गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययनयोगोद्बहनादिभिर्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किया द्विलम्येनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात् , अथ पुत्रादीनां सप्रज्ञत्वेन अन्येषां निष्प्रज्ञत्वेन महदन्तरं तदास पित्रादिरेवं प्रतियोध्या-भो महाभाग! सप्रज्ञोऽपि तव पुत्रः अन्यभ्यो बहुभ्यो लघुर्भविष्यति तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितः स यदि अनुमन्यते तदा पुत्रादिः प्रथम उपस्थापनीयः, नान्यथा, इति सप्तमः ७॥ 'पडिक्कमणे'त्ति अतिचारो भवतु मा वा परं श्रीऋषभ-10 वीरसाधूनां उभयकाल अवश्यं प्रतिक्रमणं कर्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि देवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक
दीप अनुक्रम
~23~