________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [५] .......... मूलं [११४] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति::
साक्तिः सू.
प्रत सूत्रांक [११४] गाथा ||१..||
(अभिनंदमाणा य अभिथुवमाणा य) अभिनन्दन्तः अभिलुवन्तश्च (एवं बयासी) एवं अवादिषुः॥ (११३) महत्त रो| (जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! (जय जय भद्दा ! भई ते ) जय-जयवान् भव है || भहा!-भद्रकारक! ते-तुभ्यं भद्रं अस्तु, किञ्च-(अभग्गेहिं नाणदसणचरित्तेहिं) अभग्नैः-निरतिचारैज्ञान-11 दर्शनचारित्रैः (अजियाई जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय-वशीकुरु (जियं च पालेहि समणधर्म) जितं च-ववशीकृतं पालय भ्रमणधर्म (जियविग्धोऽवि अ वसाहि तं देव ! सिद्धिमज्झे) जितविनोऽपि च हे देव ! प्रभो!-त्वं वस, कुत्र:-सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया|8| |प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः (निहणाहि रागदोसमल्ले) रागद्वेषमल्ली निजहि-निगृहाण, तयोनिग्रह।
कुरु इत्यथे।, केन?-तिवेणं) तपसा बाह्याभ्यन्तरेण, तथा (धिइधणियबद्धकच्छे) धृती-संतोषे धैर्य वा Sअत्यन्तं बद्धकक्षा सन् ( महाहि अट्टकम्मसत्त) अष्टकर्मशत्रन मर्दय, परं केनेत्याह-(झाणेणं उत्तमेणं सुकेणं)
ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा (अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुकरंगमझे) हे वीर १० अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो-मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताका आहर-गृहाण, यथा कश्चि-18 न्मल्ल प्रतिमहं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून विजित्य आराधनपताकां गृहाण इति भावः (पावय वितिमिरमणुसरं केवलवरनाणं) प्राप्नुहि च वितिमिरं-तिमिररहितं अनुत्तरं-अनुपमं केवलचरज्ञानं 8(गच्छय मुक्खं परं पर्य) गच्छ च मोक्षं परमं पदं, केन? (जिणवरोचढण मग्गेण अकुडिलेण) जिनवरो
दीप
अनुक्रम [११६]
~205~