________________
कल्प
सूत्र
प्रत
सूत्रांक
[६०]
गाथा
||..||
दीप
अनुक्रम
[६२]
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
........... व्याख्यान [ ३ ] ........... मूलं [ ६०] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
गार्दैन्य भागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुजीवगत्ति) बन्धुजीवकं - पुष्पविशेषः 'वपोहरीआ फुल इति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहु असुरत्तलो अणत्ति) परभृतस्य को किलस्य सुरक्तें - कोपादिना रक्तीकृते ये लोचने (जामुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसिद्वस्य यो राशि:- समूहस्तथा ( हिंगुलनिअराइरेगरेहंतसरिसे) हिंगुलनिकरश्च प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः स सदृशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां हिङ्गुलनिकरान्तानां यो राजमानोऽतिरेकः- प्रकर्षस्तत्सदृश इति, पुनः किंविशिष्टे सूर्ये १ ( कमलायरसंडविबोहए ) कमलानां आकरा - उत्पत्तिस्थानानि ये पद्महदादयस्तेषु यानि खण्डानि कमलवनानि तेषां विकाशके (उट्ठियंमि सूरे) एवंविधे अभ्युदिते सूर्ये सति, पुनः किंवि० १ ( सहस्सरस्सिमि) सहस्ररइमौ पुनः किंवि० १ ( दिणयरे) दिनकरे - दिनकरणशीले, पुनः किंवि० १ ( तेअसा जलते ) तेजसा देदीप्यमाने ( तस्स य करपहरापरर्द्धमि अंधयारे ) तस्य च श्रीसूर्यस्य करमहारै: - किरणाभिघातैः अन्धकारे अपराद्धे विनाशिते सति, अथ च ( बालायवकुंकुमेणं खचियत्व जीवलोए ) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके मनुष्यलोके खचिते - व्याप्ते सति, कोऽर्थः ? - यथा कुङ्कुमेन किञ्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिजाओ अब्भुट्ठेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (६०) ॥
For Pride & Personal Use Only
~ 131~
नृपस्योत्था
नं सू. ६०
५
१०
१४