________________
कल्प
सूत्र
प्रत
सूत्रांक
[५२]
गाथा
||..||
दीप अनुक्रम
[ ५४ ]
Jan Education in
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
........... व्याख्यान [ ३ ] ........... मूलं [ ५२ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
स्तेषां लाभः हे देवानुप्रिये ! ( पुत्तलाभो देवाणुप्पिए) पुत्रस्य लाभ: हे देवानुप्रिये ! ( सुक्खलाभो देवाणुप्पिए) सौख्यं मनसो निवृत्तिस्तस्य लाभः हे देवानुप्रिये ! (रजलाभो देवाणुप्पिए ) राज्यं - स्वाभ्यैमात्य सुहृत्कोशराष्ट्रदुर्गसैन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा विशेषतो मुख्यं फलमाह - ( एवं खलु तुमे देवाणुप्पिए ! ) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये ! हे त्रिशले ! ( नवहं मासाणं ) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्टमाण राइंदियाणं ) अर्द्धाष्टमरात्रिदिवसाधिकेषु ( विज्ञताणं ) व्यतिक्रान्तेषु सुरूपं दारकं पुत्रं प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं ? - ( अम्हं कुलकेड ) अस्माकं कूले केतुरिव केतुः चिन्हं ध्वजस्तत्सदृशं अत्यद्भुतं इत्यर्थः ( अम्हं कुलदीवं ) अस्माकं कुले दीप इव दीपस्तं प्रकाशकं मङ्गलकारकं च ( कुलपव्वयं) कुले पर्वत इव पर्वतः अपराभवनीयः स्थिर, कुलस्य आधार इत्यर्थः, ( कुलवर्डिस) कुले अवतंसक इव-मुकुट इव यस्तं, शोभाकरत्वात्, अत एव (कुलतिलयं ) कुलतिलकं मस्तकधार्यत्वात् (कुलकित्तिकरं ) कुलकीर्त्तिकरं शुभाचारित्वात् ( कुलवित्तिकरं ) कुलस्य वृत्ति:- निर्वाहस्तस्य कारकं (कुलदिणयरं ) प्रकाशकत्वात् कुले दिनकरसमानं ( कुलआधारं ) कुलाधारः - पृथ्वीवत् कुलस्याधारं (कुलनंदिकरं ) कुलस्य नन्दि:-वृद्धिस्तस्याः करं कारकं ( कुलजसकरं ) कुलस्य यशः - सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्भामिनी कीर्तिः, सर्वदिग्गामुकं यशः' इति वचनात् ( कुलपायचं) छायाकरत्वात् आश्रयणीयत्वाच्च कुले पादपसमानं,
For Pride & Personal Use On
~125~
भाविपुत्र वर्णनं सू. ५२
५.
१०
१४
wijanbary.org