________________
कल्प
सूत्र
प्रत
सूत्रांक
[४३]
गाथा
||..||
दीप अनुक्रम
[४५]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [३] ........... मूलं [ ४३ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
विमानखआवर्त्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् ऊर्ध्वं उच्छलत् (पञ्चोनियतत्ति) प्रत्यवनिवृत्तं ऊर्ध्वं उच्छ ल्य तत्रैव पुनः पतितं, अत एव ( भ्रममाणलोलसलिलं ) तत्र आवर्त्ते एव भ्रमत् तत एव च लोलं खभावतः सू. ४४ तञ्चञ्चलं, एवंविधं सलिलं - पानीयं यत्र स तथा तं, (पिच्छइ) प्रेक्षते इति क्रियापदं ( खीरोअसायरं ) क्षीरोदसागरं इदं विशेष्यं ( सरघरयणिकर सोमवयणा ) शरत्कालीनः रजनीकरः- चन्द्रस्तद्वत् सौम्यं वदनं यस्याः, एवंविधा त्रिशला ११ ॥ (४३) ।
(तओ पुणो ) ततः सा त्रिशला द्वादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुंडरीकं ? - ( तरुणसूरमंडलसमप्यहं ) तरुणो-नूतनो यः सूर्यस्तस्य मण्डलं विम्बं तेन समा प्रभा - कांतिर्यस्य तत्तथा पुनः किंवि०१ ( दिव्यमाणसोहं ) दीप्यमाना शोभा यस्य तत्तथा पुनः किंवि० ? ( उत्तमकंचणमहामणिसमूह परते अअद्वसहस्सत्ति ) उत्तमैः काञ्चनमहामणिसमूहैः- सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्याः तेकाः-स्तम्भाः तैः (दिप्पंतनहपई ) दीप्यमानं सत् नभ - आकाशं प्रदीपयति यत् तत् तथा, पुनः किंचि ० १ - कणगपयरलंयमाणमु सासमुज्जलंति) कनकप्रतरेषु सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं प्राबल्येन दीप्तिमत् पुनः किंवि० ? (जलंतदिव्यदामंति) ज्वलन्ति - दीप्यमानानि देवसम्बन्धीनि अर्थालम्बितानि दामानि-पुष्पमाल्यानि यत्र तत्तथा पुनः किंवि० ? - ( इहामिगाउसभतुरगति ) इहामृगा-वृका 'वरगडा जीव इति लोके' ऋषभा-वृषभाः तुरगा अश्वाः (नरमगर विहगत्ति) नरा- मनुष्याः मकराः विहगाः
For File & Ferton Use O
~ 117 ~
५
१४
www.janelbrary.org