________________
आगम (४४)
"नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .... मूल [४२-४३] / गाथा ||८१...||
45%
वृत्ती
प्रत सूत्रांक [४२-४३]
गाथा ||८१..||
SA
नन्दी कथं केवलपर्यायपरिमाणतुल्यं भवेद् ?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकारादकारायेव गम्यते, अथ मतिः- 'सव्वजीवाणंपिय णं सादिसपर्यहारिभद्रीय अक्खरस्स अणतभागो णिच्चुग्याडिओ'त्ति सर्वजीवग्रहणान तच्छुतं, यतः समस्तद्वादशांगविदां तत समस्तमिति, यद्येवं वसितादि
केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात्, अतो न तत् केवलाक्षरमपि, कस्यासावनन्तभागोऽस्तु , तथा| ॥८८॥
अविशेषेण सजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो विहायान्येषां अनन्तभागो गम्यते, अत एव किं न श्रुतात्मकम|क्षरमंगीकृत्य समस्तद्वादशांगविदो विहायान्यपां अनन्तभागो गम्यते, तस्मात् स्वपरपर्यायभेदाभयमप्यविरुद्धामति, तथाऽप्यत्रापर्यवसितश्रुताधिकारादकारायेव न्यायानुपाति, तत् पुनरनन्तपर्यायम् । इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः,स सानुनासिको निरनुनासिकश्च, एवं दीर्घः प्लुतः, एवं तावदष्टादशप्रभेदं अवर्ण अवते,एवं यावतः केवल एवाकारो लभते सानुनासिकादीन | तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः,ते चानन्ताः कथम्?, अभिलाप्यबाह्यनिमित्तभेदात् तस्य च परमाणुध्यणुकादिभेदेनानन्तत्वात ध्वनेश्च तथा तथाभिधायकत्वपरिणामे सति तत्तदर्थप्रतिपादकत्वादिति, सांकेतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यकेका नयाधिकारे विचारयिष्यामः,ततश्चैते स्वपर्यायाः,शेषास्तु सर्व एव घटादिपर्यायाःपरपर्याया इति,ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः, आह-स्वपर्यायाणां तावत्पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवत्वाश्रितत्वात् कथं तस्येति व्यपदिश्यन्ते', उच्यते, स्वपयाय-* | विशेषणोपयोगात्, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते,यथा घटस्य रूपादयः, उपयुज्यन्ते
॥८८॥ &चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्यापि च घटादिपर्यायान | अभावरूपेणाकारस्य व्यवस्थितत्वाद् घटादिपर्यायाणां अकारपयोयतायामविरोध इति, इयमत्र भावना--घटादिपर्यायाणामनन्तस्वा
दीप अनुक्रम [१३५१३६]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः
~93