________________
आगम
(४४)
प्रत
सूत्रांक
[३७..]
गाथा
||७६
७७||
दीप
अनुक्रम
[१२३
१२४]
नन्दीहारिभद्रीय
वृत्तौ
॥ ७२ ॥
“नन्दी"- चूलिकासूत्र - १ ( मूलं + वृत्ति:)
मूल [ ३७...] / गाथा ||७६-७७||
अंशा इत्यनर्थान्तरं त एव वस्तूनि भेदवस्तूनि कथं १, यतो नानवगृहीतमीद्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इवि, अथवा काका नीयते, एवं भवति चत्वाभिनिबोधकज्ञानस्य भेदवस्तूनि ?, समासेन संक्षेपेण, विशिष्टावग्रहादिस्वरूपापेक्षया, न तु विस्तरत इति विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं प्रतिपिपादयिषयाऽऽह —
अत्थाणं० गाहा ॥ (*७६- १८४ ) ॥ तत्रार्यन्त इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् ते च रूपादयः, तेषामर्थानां प्रथमदर्शनानन्तरं च ग्रहणं अवग्रहं ब्रुवत इति योगः, आह-वस्तुनः सामान्यविशेषात्मकतया विशिष्टत्वात् किमिति प्रथमं दर्शनं ततो ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात, दर्शनस्य चाल्पावरणत्वादिति, 'तथे' त्यानन्तर्ये, विचारणं पर्यालोचनं, अर्थानामिति वर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः, विविधोऽवसायो व्यवसाय:- निर्णयस्तं व्यवसायं च अर्थानामिति वर्तते, अपायं ब्रुवत इति संसर्गो, धृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं तद्धरणं पुनधीरणां, ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते, अन्ये त्वेवं पठन्ति 'अस्थाणं उग्गहणम्मि उग्गही' इत्यादि, अत्राप्यर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेष इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति गाथार्थः । इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह
उग्गहो० गाहा ।। *७७-९८४) ।। इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो-नैश्रयिकः स खल्वेकं समयं भवतीति सम्बन्धः,
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः
~77~
अवग्रहा
दयो भेदाः
||| GR !!