________________
आगम
(४४)
प्रत
सूत्रांक
[३३-३४] गाथा
||68..||
दीप अनुक्रम [११७
११८]
नन्दी
हारिमुद्रीय
॥६६॥
“नन्दी"- चूलिकासूत्र - १ ( मूलं + वृत्ति:)
मूलं [३३-३४] / गाथा ||७४...||
'से किं त' मित्यादि । ( ३३-१७६) । सूत्रसिद्धं यावदावर्त्तनता, वर्त्यते अनेनेति वर्त्तनं क्षयोपशमकरणमेत्र ईहाभावनिवृत्यभिम्मुखस्यापायभावप्रतिपश्यभिमुखस्य चार्थविशेषाव वोधविशेषस्या-मर्यादया वर्त्तनमावर्त्तनं तद्भावः आवर्त्तनता, ततः प्रतिपत्या (प्रतीपमा ) वर्त्तनं प्रत्यावर्त्तनं, अर्थविशेष एव विवक्षितापायप्रत्यासन्नतरबोध विशेषाणां मुहुर्मुहुर्वर्त्तनमित्यर्थः, तद्भावः प्रत्यावर्त्तनता, अप अयः अपायः विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनर्थान्तरं सर्वथेहाभावानिवृत्तस्यावधारणावधारितमर्थमवगच्छतोऽपाय इति भावार्थ:, ततस्तमेवावधारितमर्थं क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेत्र बुध्यमानस्य बुद्धिः, विशिष्टं ज्ञानं विज्ञानं क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरणमित्यर्थः, 'से तं अवायो' सोऽयमपायः ।
'से किं त' मित्यादि ॥ ( ३४-१७६ ) ।। निगदसिद्धं यावद्धारणेत्यादि, अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टम| न्तर्मुहूर्त्तमात्रं कालं धारयतो धारणेति भण्यते, ततस्तमेवार्थ उपयोगाच्युतं जघन्येनान्तर्मुहूर्त्तादुत्कृष्टतोऽसङ्ख्येयकालात् परतः स्मरतो धरणं धारणोच्यते, स्थापनं स्थापना, ततोऽपायावधारितमर्थं पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूर्त्तघटस्थापनावद, वासनेत्यर्थः अन्ये तु धारणा स्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते, प्रतिष्ठापनं प्रतिष्ठा अपायावधारितमेवार्थ हृदि प्रभेदेन प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत्, कोष्ठक इति अविनष्टसूत्रार्थबीजधारणात् कोष्ठकवद् धारणा कोष्ठक इति । इहात्मनो ज्ञानस्वभावत्वाज्ज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशब्दाद्यनेकविधकारणापाद्यमानक्षयोपशमसामर्थ्यादवबोधः, ज्ञेयस्य चानन्तधर्मात्मकत्वात् कालक्षयोपशम विशेषतोऽवग्रहेहापायावबोधविशेषो भावनीयः, कथंांच
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः
~71~
धारणापर्यायाः
अवग्रहा दिकालः
॥ ६६ ॥