________________
आगम
"नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............ मूलं [२४] / गाथा ||६०||
(४४)
.......
मेंदः
प्रत सूत्रांक [२४] गाथा ||६०||
नन्दी हारिभद्रीय
वृत्तौ ॥५८॥
खल्वसंख्येयप्रदेशात्मकोऽमूर्चा धर्मास्तिकाय इति, तथा यः स्थितिपरिणामपरिणतयोजीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुर्विवक्षया मतिश्रुतयो क्षितिरिव झषस्य स खल्वसंख्येयप्रदेशात्मकोऽमूर्त एवाधर्मास्तिकाय इति, एवमामिनिबोधिकश्रुतयोरपि लक्षणभेदानेदः, तथा चाह-'अभिणिवुज्झई' इत्यादि, अभिनिबुध्यत इत्याभिनिबोधिक-आत्मनः परिणामविशेषः, एवं भृणोतीति श्रुत-आत्मन एव | परिणामविशेष इति, एतदुक्तं भवति- यदिन्द्रियमनोनिमित्तमात्मनो विज्ञानं श्रुतग्रन्थानुसारेणोपजायते तत् श्रुतं, शेपमिन्द्रियमनोनिमित्तमाभिनिगोधिकमिति । इत्थं लक्षणभेदाढ़ेदमभिधायाधुना प्रकारान्तरेण भेदमभिधित्सुराह-'मतिपुवं सुतं, ण मती सुयपुब्बिया' 'पृ पालनपूरणयो रित्येतस्य पूर्यते प्राप्यते पाल्यते वाऽनेन कार्यमिति पूर्व-कारण, मतिः पूर्वमस्येति मतिपूर्व, श्रुतं-12 श्रुतज्ञानं, तथा चेदं मत्या पूर्यते प्राप्यते पाल्यते वा, अन्यथा प्रणश्यतीत्यर्थः, न मतिः श्रुतपूर्वेत्ययं महान् भेद इति ।। अत्राहमतिश्रुतयोयुगपदेव सम्यक्त्वावाप्तौ भाव उक्तः, अज्ञानयोरपि विगमः, तत् कथं मतिपूर्व श्रुतमिति !, किंच-मतिपूर्वकत्वेऽभ्युपगम्यमाने सति मतिज्ञानभावेऽपि तत्काले श्रुतमज्ञानं प्रामोति, अनापं चेदमिति, अनोच्यते, ननु लब्धि प्रति मतिश्रुते समकाले भवतः, न तूपयोगोऽनयोः समकाले इति मतिपूर्व श्रुतं, इह पुनः को भाषार्थः -श्रुतोपयोगो मतिप्रभवः, यतो नासंचिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानमुत्पद्यते । आह-एवं मतिरपि श्रुतपूर्वा भवत्येव, तथाहि-शब्दं श्रुत्वा या मतिरुत्पधते सा श्रुतपूर्वेति प्रतीतं, अतो न विशेषो, यथा मतिपूर्व श्रुतं तथा मतिरपि श्रुतपूर्वेति, अत्रोच्यते, ननु सा दून्यक्षुतोद्भवा वर्तते, इह तु न मतिः श्रुतपूर्वेति,
॥५८॥ का भावना, भाबश्रुतात् सकाशात् मतिनास्तीति, यद्वा कार्यतया निषिध्यते न पुनः क्रमेण, क्रमेण तु श्रुतोपयोगात् ल्युतस्य मत्यव| स्थानमिष्यत एवेत्यलं प्रसङ्गेन, न चैतत् स्वमनीपिकयोच्यते, यतोऽभ्यधायि भाष्यकृता-'णाणाणऽण्णाणाणि य समकालाई यतो
EXA5%
दीप अनुक्रम [९३]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति:
~63~