________________
आगम
(४४)
प्रत
सूत्रांक
[१७]
गाथा
॥५६
५७॥
दीप अनुक्रम [७८-८१]
नदीहारि मद्रीय वृत्ती
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [१७] / गाथा ||५६-५७||
॥ ४२ ॥
पश्यन्ति न तु देशत एवेति गाथार्थः ॥ जथवाऽन्यथा व्याख्यायते एवं तावदवधिज्ञानमभ्यधायि, साम्प्रतं ये नियतावधयो ये चानियतावधयो भवन्ति तान् प्रतिपादय आह— "नेरइय" गाहा, नारका देवास्तीर्थकरा एव अवधेरवाद्या भवन्ति, किमुक्तं भवति ? नियतावधयो भवन्ति, नियमेनैवामवधिर्भवतीत्यर्थः तेन चावधिना पश्यन्ति सर्वत एव न पुनर्देशतोऽपि, अत्राह४२ पश्यन्ति सर्वत एवेत्येतावदेवास्तु, अवधेरवाला भवन्तीत्येतश्वनर्थकं, नियतावधित्वस्यार्थसिद्धत्वात्, तथा चोक्तम्- 'द्वयोर्भवप्रत्ययः, तद्यथा देवानां च नारकाणां च त्यतोऽर्थगम्यमेवषां नियतावधित्वं, तीर्थकृतामपि प्रसिद्ध तरपार भविकावधिसमन्वागमादेव नियतावधित्वसिद्धिरिति अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्व सिद्धिरित्यतस्तत्प्रदर्शनार्थं अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाद्दृष्टं ययेवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, छद्मस्थकालस्यैव विवक्षितत्वात् अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः । 'सेतं ओहिणाणति, तदेतदवधिज्ञानम् ॥
'से किं तं मणपज्जवणाण' मित्यादि ।। १७-९९ ।। अथ किं तन्मनःपर्यायज्ञानंः, इदं प्राणिरूपितशब्दार्थमेव, साम्प्रतमुत्पत्तिस्वामिमागुणाद्वारेण चिन्त्यते, तथा चाह- 'मणपज्जवणाणं भेते' इत्यादि, मनःपर्यायज्ञानं णमिति वाक्यालङ्कारे, मदन्तः इति गुर्वामन्त्रणं, किमिति परिप्रश्ने, मनुष्याणामुत्पद्यत इति प्रकटार्थम्, जमनुष्याणामुत्पद्यत इत्यमनुष्यादेवादयः, अत्रेद निर्वचनं - गौतम! माणुस्साणमित्यादि । आह-किमिदं अकाण्ड एव गौतमामन्त्रणं, नतु देववाचकरचितोऽयं ग्रन्थ इति, उच्यते, सत्यं, किन्त्येते पूर्वसूत्रालापका एवार्थवशाद्विरचिताः, 'जावइया तिसमयाहारगस्से' त्यादिनिर्युक्तिगाथासूत्रवादित्यतो न दोषः, तत्र च गौतमप्रश्नभगवनिर्वचनरूप एवं ग्रन्थ इति, पुनरप्याह-ननु गौतमोऽपि सूत्रतः प्रवचन
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः .... अथ प्रत्यक्षज्ञान भेदे मनः पर्यवज्ञानस्य वर्णनं आरभ्यते
~47~
मनःपर्यायाधिकारः
॥ ४२ ॥