________________
आगम (४४)
"नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ........ मूलं [१२...] / गाथा ||४९-५३||
प्रत सूत्रांक
नन्दी- हारिभद्रीय वृत्ती
[१२..]
गाथा ||४९
व्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायाँश्च विवक्षितकालान्तर्वर्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्चद्रव्यालम्बनत्वात्, एवं 81
श्री क्षेत्रकाल| सर्वत्र भावना दृष्टव्या, क्रिया च गाथाचतुष्टय प्यध्याहार्या, तथा दूयोर-अङ्गुलावलिकयोः सङ्घययौ भागौ पश्यति, अङ्गुलसं-12
वृद्धिः | ख्येयभागमात्र क्षेत्रं पश्यन्नावलिकायाः सङ्घयेयभागमेव पश्यतीत्यर्थः, तथा अंगुलं पश्यन् क्षेत्रत आवलिकान्तः पश्यति, भिन्ना-४ मावलिकामित्यर्थः, तथा कालत आवलिकां पश्यन् क्षेत्रतः अगुलपृथक्त्वं पश्यति, पृथक्त्वं हि द्विप्रभृतिरानवभ्यः, इति प्रथमगाथार्थः ।। द्वितीयगाथाव्याख्या-हस्त इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्नमुहूर्तमित्यर्थः, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युच्यते, तथा कालतो दिवसान्तो भिन्नदिवस पश्यन् क्षेत्रतो गव्यूत इति गन्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा पक्षान्ता-भिनं पक्षं पश्यन् कालतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः । तृतीयगाथाव्याख्या-भरत इति क्षेत्रतो भरतविषयेऽवधौ कालतः अर्द्धमास उक्तः, एवं जम्बूद्वीपविषये चावधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधाविति मनुष्यलोकः खल्वद्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः ॥ चतुर्थगाथाव्याख्या-सलयायत इति सङ्ख्येयः, स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि, सङ्ख्येयो बर्षसहस्रात् परतोपि गृह्यते इति, तस्मिन् | संख्येये कलनं कालः तस्मिन् काले अवधेर्गोचर सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति IN ॥३७॥ संख्येयाः, अपिशब्दात महानेकोअपि तदेकदेशोऽपीति तथा कालेऽसंख्येये पल्योपमादिलक्षणेऽवधेर्विषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्रास्तु भाज्या:-कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्यासंख्येयद्वीप
SHESHAN
५३||
CAM
दीप
अनुक्रम [६६-७०]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः
~42~