________________
आगम
(४४)
प्रत
सूत्रांक
[१२]
गाथा
||४८||
दीप अनुक्रम [६४-६५]
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूल [१२] / गाथा ||४८||
नन्दी
स्ताध्यवसायस्येत्यर्थः, सर्वतः समन्तादवधिः परिवर्द्धत इति योगः, अनेनाविरतसम्यग्टष्टेरपि वर्द्धमानक उक्तो वेदितव्यः, हारिमुद्रीय हूँ वर्त्तमानचारित्रस्येत्यनेन तु देशविरतसर्वविरतयोरिति, विद्युध्यमानस्य तदावरणकर्ममलविगमादुत्तरोत्तरं शुद्धिमनुभवतः अवि| रतसम्यग्दृष्टेरेव, अनेनावधेः शुद्धिजन्यत्वमाह, विशुध्यमानचारित्रस्य देशसर्वविरतस्य सर्वतः समन्तादवधिः परिवर्द्धत इति, तत्र परिवर्द्धत इष्युक्तम् अथ सर्वजघन्योऽयं कियत्प्रमाणो भवतीति प्रश्नसम्भवे क्षेत्रतः प्रतिपादयश्राह
॥ ३४ ॥
जावइया॰गाहा।।(*४८-९०) । यावती यावत्प्रमाणा, आहारयतीत्याहारकः त्रिसमयं आहारकः त्रिसमयाहारकः त्रीन् वा समयानिति, तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य पनवासी जीवश्च पनकजीवः, वनस्पतिविशेषः इत्यर्थः, तस्य, अवगाहन्ते यस्यां प्राणिनः सा अवगाहना, तनुरित्यर्थः, जघन्या- सर्वस्तोका, अवधेः क्षेत्र अवधिक्षेत्र, जघन्यं सर्वस्तोकं, तुशब्द एवकाकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- अवधिक्षेत्रं जघन्यमेतावदेवेति । अत्र च सम्प्रदायसमधिगम्योऽयमर्थः
योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्येत हि सूक्ष्मः पनकत्वेनेह से ग्रायः ॥ १ ॥ संहृत्य चाद्यसमये स | खायामं करोति च प्रतरम् । संख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ २ ।। स्वतनपृथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् । | तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ संख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुप्रथुत्वदेध्यां तृतीयसमय तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ५ ॥ तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ।। ६ ।।'
मुनि दीपरत्नसागरेण संकलित... आगमसूत्र - [४४ ], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी -रचिता वृत्तिः
~39~
अबघेर्ज
धन्यं क्षेत्रं
| ॥ ३४ ॥