________________
आगम
(४४)
प्रत
सूत्रांक
[-]
गाथा
||१०
१२||
दीप अनुक्रम
| [१०-१२]
नन्दीहारिभूद्रीय
वृता
॥ १० ॥
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूलं [-] / गाथा || १०-१२||
स्विनःत एव ग्रहास्तेषां प्रभा-एकदुष्णयज्ञानलक्षणा तां नाशयति अनन्तनय संकुलप्रवचनसमुत्थज्ञानालोकेन अपनयतीति समासस्तस्य तपस्तेजोदीसलेश्यस्य तपस्तेज एवं दीप्ता-उज्ज्वला लेश्या दीर्घितयो यस्य, ज्ञानोयोतस्प्रेति गतार्थ, जगति लोके भद्रं मङ्गलं भवतु कस्य दमस सूर्यस्य दमः- उपशमो भण्यते तत्प्रधानः सङ्घसूर्यः दमसङ्घसूर्यस्तस्येति गाथार्थः । । साम्प्रतं सङ्घस्यैव महत्तया समुद्ररूपकेण स्तवमाह
भई० गाहा ॥ (*११-४५) । सङ्घसमुद्रस्य भद्रं भवत्विति क्रिया, किम्भूतस्य धृतिवेलापरिगतस्य धृतिः - आत्मपरि णामः सैव वेला-वेदिका जलान्तररमणलक्षणा मर्यादा वा तथा परिगतस्तस्य, स्वाध्याययोगमकरस्य कर्मविदारणमहाशक्तियुक्तत्वात् स्वाध्याय एव मकरो यस्मिंस्तस्य, अक्षोभ्यस्य परीषहोपसर्गसम्भवे निष्प्रकम्पस्य भगवतः समत्रैश्वर्यादियुक्तस्य, रुन्द्रस्येति विस्तीर्णस्येति गाथार्थः । इदानीं सङ्घस्यैव स्थिरतयाऽचलेन्द्ररूपकेण स्तुतिं कुर्वन्नाह
सम्मर्द्दसण॰गाहा।।(*१२--४५) । सम्यग् अविपरीतं दर्शनं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गत्वात् सारत्वाद्वजं सम्यग्दर्श | नवज्रं तदेव हढं रूढं गाढं अवगाढं पीठं यस्य सङ्घ महामन्दर गिरेः स सम्यग्दर्शनवजदृढरूढगाढावगाढपीठस्तस्य, 'वंदे' चि द्वितीयार्थे षष्ठी प्राकृतशैल्या आपत्वाच्च तं वन्दे इत्यर्थः, तत् सम्यग्दर्शनवज्रपीठं, दृढमिति निष्प्रकम्पं शङ्कादिशल्यरहितत्वात्, रूढमिति वृद्धिमुपगतं, प्रतिसमयं विशुध्यमानत्वात्, प्रशस्ताध्यवसायस्थानेषु वर्तनात्, गाढमिति निविडं तीव्रतत्त्वरूचिरूपत्वात्, सुष्ठुश्रद्धानरूपत्वादित्यर्थः, अवगाढमिति निमग्नं, जीवादिपदार्थेषु सम्यगवबोधरूपतया प्रविष्टमित्यर्थः, धर्मवरेत्यादि धारयतीति धर्मः
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः
~15~
संघस्य सूर्यसमुद्रतया स्तवः
112 11