________________
आगम
(४४)
प्रत सूत्रांक
[४५-४६]
गाथा
॥८९..।।
दीप
अनुक्रम
[१३८
१३९]
नन्दीहारिद्रीय
वृत्ती
॥ ९६ ॥
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूलं [४५-४६] / गाथा ||८१... ||
|पमाणभूयसुत्तणिज्जूहणसमत्था अभकालिगावि ते एत्थ अहिगया, एए ते सुप्पसिद्धप्पइन्नगणिज्जूहगा चैव दट्ठव्वा, यत आह'अथवेत्यादि, अथवेति प्रकारान्तरप्रदर्शनं यस्य ऋषभादेस्तीर्थकृतः यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारि णामिक्या च चतुर्विधया बुध्ध्या उपपेताः समन्विताः तस्य तावन्त्येव प्रकीर्णकसहस्राणि प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षते - किल प्रत्येकबुद्धहव्धान्येव तान्यवगन्तव्यानि, प्रकीर्णकप्रमाणेन प्रत्येकबुद्धप्रमाणप्रतिपादनात् स्यादेतत्-प्रत्येकबु द्धानां शिष्यभावो विरुध्यत इति, एतदप्यसत्, तेषां प्रत्येकबुद्धत्वादाचार्यमेवाधिकृत्य शिष्यभावस्य निषिद्धत्वात्, तीर्थकरप्रणीतशासनप्रतिपन्नत्वेन तु सच्छिष्यभावो न विरुध्यत इति, अन्ये पुनरित्थमभिदधति - सामान्येनेह प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धब्धानि प्रकीर्णकाणीत्यलं विस्तरेण । 'सेत' मित्यादि, तदेतत् कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनंगप्रविष्टमिति ॥
'से किं त' मित्यादि ॥ (४५-२०९ ) ।। अथ किं तदंगप्रविष्टम्, अंगप्रविष्ट द्वादशविधं प्रज्ञप्तं तद्यथा - आचारः सूत्रकृतमित्यादि 'से किं तमित्यादि ॥ ( ४६-२०९ ) ।। अथ किं तदाचारवस्तु, यद्वा अथ कोऽयमाचारः ?, आचरणमाचारः आचर्यत इति वा आचारः शिष्टाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेन चाचारेण करणभूतेन श्रमणानामाचारादि आख्यायत इति योगः, अथवा आचारे णमिति वाक्यालंकारे भ्रमणानां प्राग्निरूपितशब्दार्थानां निर्ग्रन्थानां वाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निर्ग्रन्था एव भवन्ति, विशेषणं किमर्थ?, उच्यते, शाक्यादिव्यवच्छेदार्थ, उक्तं च"निग्गंथ सक तावस गेरुय आजीव पंचहा समणा" तत्राचारो ज्ञानाद्यनेकभेदभिन्नो गोचरो - भिक्षाग्रहणविधिलक्षणः विनयो ज्ञानादि
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ••• अथ अंगप्रविष्ट सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'आचार' सूत्रस्य वर्णनं |
101~
आचारांग
॥ ९६ ॥