________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
श्रीआव श्यक मल
च० वृत्ती
उपोद्घाते
||४४२॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [१] निर्युक्तिः [[१५], वि०भा० गाथा [-], भाष्यं [ १५०...] मूलं [- /गाथा -] रत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सेह' इति मिश्रः खल्वानापानपर्याप्त्या अपर्याप्तो भण्यते, तत्र चतुर्णामपि सामायिकानां प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, न मिश्रश्चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवतीति भावः, 'दुविह पडिवन्नो'त्ति स एव मिश्रो द्विविधस्य सामायिकस्य, सम्यक्त्व सामायिकस्य श्रुतसामायिकस्य चेत्यर्थः, प्रतिपन्न: - पूर्वप्रतिपन्नो देवादिर्जन्मकाले भवति, अथवा मिश्रः सिद्धः, तत्र चतुर्णामपि सामायिकानां प्रतिपद्यमानस्य प्रतिषेधः सम्यक्त्वरहितानां तु त्रयाणां सामायिकानां पूर्वप्रतिपन्नस्य च, 'दुविह पडिवन्न'त्ति अत्र मिश्रः शैलेशीगतोऽयोगिकेवली गृह्यते, तस्य शरीरव्यापाररहिततया उच्छ्रासनिःश्वास विकलत्वात् स द्विविधस्य सामायिकस्य सम्यक्त्वचारित्रसामायिकरूपस्य पूर्वप्रतिपन्नो वेदितव्यः। दृष्टौ विचार्यमाणायां द्वौ नयाँ खलु विचारकौ - व्यवहारनयो निश्चयनयश्च, एवकारोऽवधारणे, एतावेव द्वौ, न शेषाविति, तत्राद्यो यथा मतिज्ञानविचारे अज्ञानी ज्ञानं प्रतिपद्यते इत्यभ्युपगतवान् तथेहापि सामायिकरहितः सामायिकं प्रतिपद्यते, निश्चयनयस्तु क्रियाकाल निष्ठाकालयोरभेदात् यथा ज्ञानी ज्ञानं प्रतिपद्यते इति प्रतिपन्नवान् तथा सामायिकवा न् सामायिकं प्रतिपद्यते इत्यपि । उके उच्छ्रासदृष्टिद्वारे, साम्प्रतमाहारकद्वारं पर्याष्ठद्वारं च प्रतिपिपादयिषुराह
'आहारओ उ जीवो पडिवज्जइ सो चउपहमन्नपरं । एमेव य पञ्चत्तो सम्मत्तसुए सिया इअरो ॥ ८१५ ।। आहारयतीत्याहारकः, स चतुर्णां सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्तु सर्वेषामपि नियमादस्त्येव, षटू पर्याप्तीः परिसमाप्तवान् पर्याप्तः सोऽप्येवमेव प्रतिपत्तव्यः, किमुक्तं भवति ? चतुर्णा सामायिकानामन्यतरत् सामायिकं प्रतिपद्यमानः सम्भवति, पूर्वप्रतिपन्नस्तु चतुर्णामपि नियमात् विद्यते इति, 'समत्तसुए सिया इयरो इति इतर:- अना
For Private & Personal Use Only
~ 300~
क किमि
सिद्वारे ग तिभव्यसं
जिच्छ
सदृष्ट्याहा
रकपर्यात
द्वाराणि
॥४४२॥
janetary.org