________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [७८२-७८३], वि० भा० गाथा [२५२०-२५२१], भाष्यं [ १४४ ], मूलं [- /गाथा ] दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
साधूनां कर्त्तव्यं येषां तु मतेन यावज्जीवादिकं परिमाणं प्रत्याख्यानस्य तेषामेवत्प्रत्याख्यानं दुष्टम् - अशोभनं यतस्तत्र 'आससा होइ'चि अनुस्वार लोपादाशंसा भवति, आशंसा च दुष्टपरिणामः, ततस्तदूषितं न शोभनमिति, उक्तं च- "आसंसा आ पत्ते सेविश्सामित्ति दूसियं तीए । जेण सुर्यमिवि भणियं परिणामातो असद्धं तु ॥ १ ॥ रागेण व दोसेण व परिणामेणं न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेय ॥ २ ॥ (वि. २५२० - १ ) आशंसादोषदुष्टतायां चायं प्रयोगःयावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात्परतः पारविष्यामीत्युपवासप्र त्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवदिति ॥ एवं पण्णविंतो विंझेण भणितो-न होइ एवं जं तुमे भणियं एत्यंतरे जं तस्स अवसेसं नवमपुवस्स तं सम्मतं, ततो सो अभिनि| वेसेण दुब्बलिया समित्तसगासं चैव गंतूण भणइ-अन्नहा आयरिएहिं भणियं, अन्नहा तुमं पण्णवेसि, उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राचार्यः प्राह - ननु यदुक्तं भवता यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि, तदयुक्तं यतः-| कृतप्रत्याख्यानानां साधूनां न मृता वयं सेविष्याम इत्येवंरूपा आशंसा, किन्तु मृतानां देवभवे मा भूद् प्रतभंग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, तथाहि - अपरिमाणमिति कोऽर्थः १, किं यावच्छतिरुताना गता द्धा आहोस्विदपरिच्छेदः १ तत्र यदि यावच्छतिरस्ति, एवं सति शक्तिमितिकालावध्यभ्युपगमात् अस्मन्मतानुवाद एव आशंसादोषोऽपि च काल्पनिकस्तुल्यः, अन्यच्च यथाऽस्मत्पक्षे मृतस्य न व्रतभङ्गदोषो यावज्जीवमित्यवधेः परिपूर्णत्वात् तथा ( त्वन्मते ) जीवतोऽपि भोगान् भुञ्जानस्य न स्यात्, एतावत्येव मम शक्तिरिति प्रत्याख्यानस्य पूर्णत्वात्, तथैव
For Private & Personal Use Only
~249~
janelibrary.org