SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [ - ], निर्युक्तिः [७८२-७८३] वि० भा० गाथा [ २४९०, २५०८], भाष्यं [१३९], मूल [- / गाथा-] दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचितवृ सिरिगुत्तेणवि छलुगो छम्मास विकडिऊण वायजिओ । आहरण कुत्तिआवण चोयालसएण पुच्छार्णं ॥ १३९॥ (मा.) श्रीगुष्ठाचार्येण षटपदार्थप्ररूपणात् उलूकगोत्रत्वाश्च षडुलूको - रोहगुप्तः, उक्तं च- "नामेण रोहगुतो गोत्रेणालप्पए स बोलूगो । दबाइछप्पयत्थोवएसणा सो छलूगत्ति ॥१॥ (वि. २५०८) पूर्व षण्मासान् विकृष्य-अतिवाह्य वादे जितो-निगृहीतः, कथमित्याह- 'आहरणकुत्तियावणे' त्यादि, स्वर्गमपातालभूमीनां त्रिकं कुत्रिकं, तात्स्थ्यात्तव्यपदेश इति भुवनत्रयेऽपि यद्वस्तु जातं तत् कुत्रिकमित्युच्यते, तस्य पणायानिमित्तमापणो - हट्टः कुत्रिकापणः, यदिवा को - पृथिव्यां त्रिकस्य - जीवधातुमूलात्मकस्य समस्तलोकभाविनो वस्तुजातस्थापणः कुत्रिकापणः, अस्मिंश्च कुत्रिकापणे वणिजः कस्यापि मन्त्राद्याराधितः सिद्धो व्यन्तरः सुरः क्रायकजनसमीहितं समस्तमपि वस्तु कुतोऽप्यानीय सम्पादयति, तन्मूल्यद्रव्यं तु वणिग् गृह्णाति, अन्ये त्वभिदधति - वणिग्विवर्जिताः सुराधिष्ठिता एव ते आपणाः सन्ति, मूल्यद्रव्यमपि स एव व्यन्तरसुरः स्वीकरोति, एते च कुत्रिकापणाः प्रतिनियतेष्वेव नगरेषु भवन्ति, न सर्वत्र, एष च कुत्रिकापणो दृष्टान्त इति वादि| प्रतिवादिप्रतिज्ञातार्थनिर्णय समर्थ इत्याहरणं, आहरणं च स कुत्रिकापणः तस्मिन् यत् वक्ष्यमाणभूजलज्वलनादिविषयाणां पृच्छानां चतुश्चत्वारिंशं शतं तेन तत्र चतुश्चत्वारिंशं शतमिदं तेन रोहगुप्तेन पटू पदार्थाः प्रकल्पिताः, तद्यथा-द्रव्यगुणकर्मसामान्य विशेषसमत्रायाः, उक्तं च- 'दवगुणकम्मसामन्नविसेसा छट्टओ य समवाओ। एए मूलपयत्था छलुगेण पकपिया पढमं ॥ १ ॥ तत्र द्रव्यं नवभेदं तद्यथा-पृथिवी जलं तेजः पवनं आकाशं कालो दिक् आत्मा मनश्व, उक्त - "भूजलजलणानिलनहकाउदिसाऽऽया मणो य दबाई भन्नंति नवेयाई सतरस गुणा इमे अपने ॥१॥” (विशे. २४९० ) Jain Education International For Pivate & Personal Use Only ~ 243~ wwww.janlibrary.org
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy