SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आ.सु. ६३ “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५५ ], वि०भा०गाथा [२१९८], भाष्यं [ १३७] मूलं [- / गाथा-] रत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विशेषाः पदार्थान्तरेभ्यो बुद्धिवचनविशेषकत्वात्, अन्त्यविशेषवत् किञ्च - 'त्रिपदार्थसत्करी सत्ते' ति वचनात् द्रव्यगुणकर्मसु सत्तासमवायात् सत्त्वाभ्युपगमः, स चासमीचीनः विकल्पहूयानतिक्रमात् तथाहि - सत्तासमवायात्सत्त्वं द्रव्यादेः किं स्वरूपेण सतोऽसतः १, न तावत्सतः सत्त्वे तद्योगकल्पना वैयर्थ्यप्रसङ्गात्, यदि हि स्वरूपतो द्रव्यादीनि सन्ति वर्तन्ते ततः किं तेषां सत्तासमवाययोगपरिकल्पनेन ?, वैयर्थ्यादनवस्थाप्रसङ्गाच्च, तथाहि यदि स्वरूपतः सत्स्वपि सत्तासमवाययोगपरिकल्पना ततः सत्तायामपि सत्तासमवाययोगः परिकल्पनीयः सत्त्वाविशेषात् तत्रापीयमेव वार्त्तत्यनवस्था, अथासत इति पक्षः सोऽप्यश्लीलः, असतः खरविषाणस्येव सत्तासमवाययोगासम्भवात्, उकं च - " सत्ता जोगादसतो सओ व सतं हवेज दवस ? असतो न खपुप्फरस व सतो व किं सत्तया कज्जं ? || १ || ” (विशेषा. २१९८) एवं द्रव्यत्वगुणत्वकर्म्मत्वादयोऽपि प्रतिषेध्याः, तत्राप्युक्तदोषानतिक्रमात् तथाहि--द्रव्यत्वसामान्ययोगो द्रव्यस्य किं स्वरूपतो द्रव्यस्य सतः स्यादद्रव्यस्य वा ?, प्रथमपक्षे द्रव्यत्यसामान्ययोगपरिकल्पना वैयर्थ्यमनवस्थाप्रसङ्गश्च द्वितीयपक्षे गुणक | म्र्मादिष्वपि द्रव्यत्वसामान्ययोगप्रसक्तिः, स्वतो द्रव्यत्वाभावाविशेषात् एवं गुणकर्मत्वयोगप्रतिषेधोऽपि गुणकर्मसु | परिभावनीयः । अपिच - गोत्वादिकं सामान्यं सर्वं गतमसर्वगतं वा १, सर्वगतं चेत्तर्हि प्रत्ययसाङ्कर्यप्रसङ्गः तथाहिगोत्वादीनि सामान्यानि सर्वगतानि, ततो यथा गोत्वं गोषु गोत्वात् गौर्गौरिति प्रत्ययस्तथाऽश्वोऽश्व इत्यपि स्यात्, अश्वत्वसामान्यस्यापि तत्र विद्यमानत्वात्, यथा चाश्वेषु अश्वत्वसामान्यादश्वोऽश्व इति प्रत्ययस्तथा गौगरित्यपि स्यात्, गोत्वसामान्यस्यापि तत्र विद्यमानत्वात् न चैतदस्ति, तस्मान्नायं पक्षः श्रेयान्, अथासर्वगतमिति पक्षो, ननु तत्सामा For Pivate & Personal Use Only ~161~ janelibrary.org
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy