SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५५ ], वि०भा०गाथा [२१६०], भाष्यं [१३७...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः मात्रनिबन्धनः सदिति प्रत्ययस्तर्हि स गुणादिषु न भवेत्, तत्र द्रव्यत्वाभावात् गुणमात्रनिबन्धनत्वे द्रव्यादिषु न स्यात्, तत्र गुणत्वाभावात्, एवं सर्वत्रापि भावनीयम्, ततोऽस्ति द्रव्यादिभ्यो व्यतिरिक्तं महासत्ताख्यं नाम | सामान्यं यद्वशादविशेषेण सर्वत्र संदिति प्रत्यय इति, तथा नवसु द्रव्येषु द्रव्यं द्रव्यमित्यनुगताकारप्रत्ययदर्शनात् द्रव्यत्वं नामावान्तरसामान्यं प्रतिपत्तव्यम् एवं गुणत्वकत्वगत्वाश्वत्वादीन्यपि, अमूनि चावान्तरसामान्यानि सामान्यविशेषा इत्युच्यन्ते, यत एतानि स्वस्वाधारविशेषेषु अनुगताकारप्रत्ययवचनहेतुत्वात् सामान्यानि विजातीयेम्यो व्यावर्त्तमानत्वाश्च विशेषा इति सामान्यविशेषाः, तथा तुल्यजातिगुणक्रियाधाराणां नित्यद्रव्याणां परमावाकाशदिगादीनामत्यन्तव्यावृत्तिबुद्धिहेतुभूता विशेषाः, ते च योगिनामेव प्रत्यक्षा अस्मदादीनां त्वनुमेयाः, तथाहि तुल्यजातिगुणक्रियाधाराः परमाणको व्यावर्त्तकधर्म्मसम्बन्धिनो व्यावृत्तिप्रत्ययविषयत्वात् मुक्ताफलाभात्यन्तर्गतचिह्नमुक्ताफलवत्, ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्त्तनक्षमास्ते आबालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एते च महासामान्यावान्तरसामान्यान्त विशेषावान्तरविशेषाः परस्परविशकलित स्वरूपाः, तथैव प्रतिभासमानत्वात्, तथाहि-न सामान्यग्राहिणि विज्ञाने विशेषावभासो नापि विशेषग्राहिणि सामान्यावभासः ततः परस्परविनिर्लुण्ठितस्वरूपाः, तथा चात्र प्रयोगः- यद्यथाऽवभासते तत्तथाऽभ्युपगन्तव्यं, यथा नीलं नीलतया, अवभासन्ते च परस्परविसकलित स्वरूपाः सामान्यविशेष इति नैगमः, नम्वेष यदि सामान्यविशेषाभ्युपगमपरस्तर्हि यत्सामान्यं तद्रव्यं ये तु विशेषास्ते पर्याया इति परमार्थतो द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव प्रतिपन्न जिनमतत्वात्, तथाविधसम्यग्जैन साधुवत्, Jain Education International For Private & Personal Use Only ~ 159~ www.janbrary.org
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy