________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-], निर्युक्तिः [ ४५९-४६० ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०],
Jan Education Inters
वि०भा० गाथा [-] भाष्यं [८६-८८ ], मूल [- / गाथा-] मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मईतां निष्क्रमणकाले सम्बोधनं कर्त्तव्यमिति, तत एवं चिन्तयित्वा उत्तरपूर्वी दिशमवक्रम्य द्विकृत्वो वैक्रियसमुद्घातेन | समवहत्योत र वैक्रियाणि रूपाणि विकुर्वते, विकुर्वित्वा भगवतः समीपमागत्याकाशे स्थिता मधुराभिर्वाग्भिरेवमवादिषुः- 'जय जय नंदा ! जय जय भद्दा !, जय जय मुणिवरबसभा !, बुज्झाहि भगवं ! लोगनाहा !, पवत्तेहि भयवं । धम्मतित्थं, हियसुहनिस्सेसकरं जीवाणमेयं भविस्सइति, ततो वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा यत आगतास्तत्र गताः । एतदेवाहसारस्सयमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अवाबाहा अग्गित्वा चेव रिट्ठा य ॥ ८६ ॥ भा० ॥ एए देवनिकाया भयवं योर्हिति जिनवरिंदं तु । सङ्घजगज्जीवहियं भयवं ! तित्थं पवतेहि ॥ ८७ ॥ भा० ॥ एवं अभिधुतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतियदेवेहिं कुंडग्गा मे महावीरो ॥ ८८ ॥ भा० ॥
इदमपि गाथाश्रयं सुगमत्वात् प्राग्व्याख्यातत्वाच्च न प्रतन्यते ननु पूर्वमृषभदेवाधिकारे पूर्वं सम्बोधनमुक्तं पश्चाद्दानं 'संबोहणपरिच्चाए इति पाठक्रमात् इह तु पूर्व दानं पश्चात्सम्बोधनं 'दाणे संबोह निक्खमणे' इति वचनात् ततः कथं परस्परं न विरोधः १, नैष दोषो, न सर्वतीर्थकराणामयं नियमो यदुत - सम्बोधनोत्तर कालभाविनी महादानप्रवृत्तिः, किन्तु केषांचिदेवमपि भवति -- पूर्वं महादानं पश्चात्सम्बोधनमिति, 'दाणे संत्रोह निक्खमणे' इति वचनात्, अथवा भवतु नियमः, स च द्विधा घटते- पूर्व सम्बोधनं पश्चान्महादानभथवा पूर्वं महादानं पश्चात्सम्बोधनं, तत्र पूर्वनियमेन सम्बोधनद्वारादिह दानद्वारस्य प्रागुपन्यासो बहुतरवतव्यत्वाददुष्टः, पश्चात्तने तु नियमे पूर्वमृषभ
... भगवन्त महावीरस्य दीक्षा- अवसरस्य विस्तृत वर्णनं क्रियते
For Peace & Personal Use Only
~245~
wanelibrary.org