________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४४०-४४२], वि०भा०गाथा ], भाष्यं [४५...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
5+
प्रत
सत्रांक
महांस्ततोऽहङ्कारस्तस्माद् गणश्च पोडशकः । तस्मादपि पोडशकात् पञ्चभ्यः पञ्च भूतानी ॥१॥" त्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्षः। | इक्खागेसु मरीई चउरासीई अबंभलोअम्मि । कोसिअ कुल्लागम्मी असीहमाउं च संसारो ॥ ४४०॥ | गमनिका-इक्ष्वाकुषु मरीचिरासीत् , चतुरशीतिं च पूर्वशतसहस्राण्यायुष्कं पालयित्वा 'बभलोयमि' ब्रह्मलोके कल्पे देवः |संवृत्तः, ततश्चायुष्कक्षयात् च्युत्या 'कोसिय कोलाएसु(यंमी)त्ति कोल्लाकसभिषेशे कौशिको नाम ब्राह्मणो बभूव, 'असीतिमा च संसार'त्ति स च तत्राशीतिपूर्वशतसहस्राण्यायुष्कमनुपाल्य 'संसार'चि तिर्यनरनारकामरभवानुभूतिलक्षणे संसारे पर्यटित इति गाथार्थः ॥ संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्या जात इति, अमुमेवार्थे 'घृणा येत्यादिना प्रतिपादयति
थूणाई पूसमित्तो आई यावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोबडी चेव ईसाणे ॥४४१॥ स्थूणायां नगर्या पुष्पमित्रो नाम ब्राह्मणः सञ्जातः, 'आउं वावत्तरिं च सोहम्मे 'त्ति तस्यायुष्कं द्विसप्ततिपूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तांपालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पेऽजघन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइय अग्गिजोतो चोयट्ठीसाणकप्पंमि'(चेव ईसाणे)त्ति सौधर्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः सञ्जातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत् , परिव्राट् सञ्जातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः॥
मंदिरे अग्गिमूई छप्पनाउं सणकुमारम्मि । सेअवि भारदाओचोआलीसं च माहिदे ॥ ४४२ ॥ गमनिका-ईशानायुतो 'मन्दिर' इति मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पश्चाशत् पूर्वशत
%AA%%
दीप अनुक्रम
*
Farver
Hoversanelibrary.orm
~219~