________________
|
आगम
(४०)
"आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं [-], नियुक्ति: [१३९], वि०भा गाथा -1, भाष्यं [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्रांक
%
मित्याशङ्काया अनुपपत्तिः, सत्यमेतत्, केवलं जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोश्चिजीवादन्यदिति यः संशयस्तदपनोदार्थ इहोपन्यास इत्यदोषः । आह-नामद्वारे क्षायोपशमिक सामायिकमुक्तं, ततस्तदावरणक्षयोपशमादवाप्यते इति गम्यत एवं, ततः किमर्थं 'कथं लभ्यते' इति द्वारमुपन्यस्तम् 1, उच्यते, स एव क्षयोपशमः कथमवाप्यते इति क्षयोपशमगतशेषाङ्गलाभचिन्तनाददोषः, एवं यत् यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनरभिधत्ते तत्तदनुगमद्वारावसरात् प्रपञ्चव्याख्यार्थमिति परिभावनीयम् । अपरस्त्वाह-ननूपक्रमः प्रायः शाखसमुत्थापनार्थ उक्त उपोद्घातोऽप्येष शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः ?, उच्यते, उपक्रमो हुद्देशमात्रनियतव्यापार उपोद्घातस्तु प्रायेण|
तदुद्दिष्टवस्तुप्रबोधनफलः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः ॥ तत्रोद्देशद्वारावयवार्थप्रतिपादनार्थमाह[ नाम ठवणा दविए खित्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होह अट्टमओ ॥ १३९ ।। ।
म यस्य जीवादेरद्देश इति नाम क्रियते स नाम्ना उद्देशो नामोद्देशो, यदिवा नामनामवतोरभेदोपचारात् नाम चासौ उद्देशश्च हानामोइशः, अथवा नाम्ना उद्दिश्यते-अभिधीयते इति नामोद्देशः, यदिवा नाम्न उद्देश:-अभिधानं नामोदेशः, तथा उद्देशः
स्थाप्यमानः स्थापनोदेशः, स्थापनाया वा उद्देशा-अभिधानं स्थापनोद्देशः, 'दविए' इति द्रव्यविषय उद्देशः द्रव्योद्देशः18 सच द्विधा-आगमतो नोआगमतच, तत्र आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तमेदार
त्रिधा, तत्र शारीरभव्यशरीरं प्रतीते, तद्व्यतिरिक्तस्त्रिविधस्तद्यथा-द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, तत्र भाद्रव्यस्योद्देशो यथा द्रव्यमिदमिति, द्रव्येण हेतुभूतनो शो यथा द्रव्यपतिरयमिति, तथा द्रव्ये उद्देशो यथा वर्तते राजा
+6+%
दीप अनुक्रम
E
0
Kaviewsanelibrary.orm
~19~