________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम [-]
उपोद्घातनिर्युकिः
॥२१२ ॥
Jan Education In
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-], निर्युक्तिः [ ३२०-३२१], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मा. २९९.
३२१
बोद्धव्यानि राज्ये, शेषं पुनरेकं पूर्वलक्षं चतुर्विंशतिपूर्वाङ्गहीनं व्रतपर्यायः, पञ्चाशत्पूर्वसहस्राणि कुमारवासः । पुष्पदन्तस्य - जिनानां सुविधिस्वामिनः तावदेव - पञ्चाशदेव पूर्वसहस्राणीत्यर्थः अष्टाविंशतिश्च पूर्वाङ्गानि राज्ये, शेषमेकं पूर्वलक्षमष्टाविंशतिपू- १ कुमारादिवङ्गहीनं व्रतपर्यायः । पञ्चविंशतिः पूर्वाणां सहस्राणि शीतलस्य कुमारत्वं तावदेव - पञ्चविंशतिः पूर्वसहस्राणि पर्यायो - पर्यायः व्रतपर्यायः, पञ्चाशत्पूर्वसहस्राणि राज्ये । श्रेयांसस्य कुमारत्वमेकविंशतिर्वर्षाणां उक्षाणि भवन्ति, तावदेव - एकविंशतिः वर्षाणां लक्षाणि व्रतपर्यायः, द्वाचत्वारिंशद्वर्षलक्षाणि राज्ये । वासुपूज्यस्य गृहवासे— कुमारत्वलक्षणे नियमेन वर्षाणामटादश शतसहस्राणि, व्रतपर्यायः पुनश्चतुष्पञ्चाशद्वर्षाणां शतसहस्राणि राज्यानभ्युपगमाञ्च राज्यपर्यायाभावः । विमलस्य | कुमारचासः पञ्चदश वर्षाणां शतसहस्राणि त्रिंशद्वर्षलक्षाणि राज्ये, पञ्चदश वर्षशतसहस्राणि पर्यायो-व्रतपर्याय इति । अनन्तजितः कुमारत्वे वर्षाणामर्द्धाष्टमानि लक्षाणि तावदेव - अर्द्धष्टमानि वर्षलक्षाणि पर्यायो - व्रतपर्यायः, पञ्चदश वर्षल क्षाणि राज्ये । धर्म्मस्य तीर्थकृतः कुमारत्वमर्द्धतृतीयानि वर्षाणां उक्षाणि अर्द्धतृतीयान्येव च वर्षलक्षाणि व्रतपर्यायः, पञ्च वर्षाणि पुनर्भवन्ति राज्ये । शान्तेः- शान्तिनाथस्य चतुर्ष्वपि - कुमारत्वमण्डलिच क्रिपर्यायेषु - मण्डलिचक्रिग्रहणं भावप्रधानं कुमारस्वमण्डलित्व चक्रित्वव्रतपर्यायरूपेषु स्थानेषु प्रत्येकं २ वर्षसहस्राणि पञ्चविंशतिरवगन्तव्यानि पञ्चविं शतिर्वर्षसहस्राणि कुमारत्वं पञ्चविंशतिर्वर्षसहस्राणि मण्डलिकत्वं पञ्चविंशतिर्वर्षसहस्राणि चक्रवर्त्तिपदं पञ्चविंशतिर्वर्ष सहस्राणि व्रतपर्यायः । एवमेव शान्तिनाथस्यैव कुन्थुनाथस्यापि चतुर्ष्वपि स्थानेषु कुमारत्वमण्डलित्वच क्रित्वव्रतपर्यायरूपेषु प्रत्येकं भवन्ति त्रयोविंशतिर्वर्षसहस्राणि अष्टमानि च वर्षाणां शतानि । एवमेव कुन्थुनाथम्येव अरजिनेन्द्रस्यापि
For Peace & Personal Use Only
148~
॥२१२ ॥
janelibrary.or