________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२५८-२५९], वि भागाथा , भाष्यं [४...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
क
प्रत
सत्रांक
उदिताः परीपहा:-शीतोष्णादयः एषां-भगवतां तीर्थकृतां, परं ते परीषहाः सर्वैरपि जिनवरेन्द्र पराजिताः । गतं परीषहद्वारम् ॥ अधुना जीवोपलम्भद्वारमाह-नव जीवाई इत्यादि, नव जीवादीन् आदिशब्दादजीवानववन्धसंवरपुण्यपापनिर्जरामोक्षपरिग्रहः पदार्थानुपलभ्य सर्वे निष्क्रान्ताः ॥ गतं जीवोपलम्भद्वारम्, इदानीं श्रुतलाभादिद्वाराणि प्रतिपादयति
पदमस्स बारसंग सेसाणिकारसंगसुयलंभो।पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥२५८॥ पञ्चक्खाणमिणं संजमो य पदमंतिमाण दुविगप्पो । सेसाणं सामइतो सत्तरसंगो असवेसि ॥ २५९ ॥
प्रथमस्य-भगवत ऋषभस्वामिनः पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम् ,अवशेषाणाम्-अजितस्वामिप्रभृतीनामेकाहै दशाङ्गानि, यस्य च यावान् पूर्वभवे श्रुतलाभः तस्य तावान् तीर्थकरजन्मन्यपि अनुवर्तते, गतं श्रुतलाभद्वारम् । अधुना
प्रत्याख्यानद्वारमाह-प्रथमजिनस्य-ऋषभस्वामिनोऽन्तिमजिनस्य-वर्द्धमानस्वामिन इदं प्रत्याख्यानं, यदुत पञ्च यमा:-प्राणातिपातनिवृत्त्यादीनि पञ्च महाव्रतानि, शेषाणाम्-अजितस्वामिप्रभृतीनां मध्यमानां द्वाविंशतितीर्थकृतां चत्वारो यमाः, मैथुनव्रतवर्जाणि शेषाणि चत्वारि महानतानीत्यर्थः, तेषां मैथुनस्य परिग्रहेऽन्तर्भावविवक्षणात् , नापरिगृहीता स्त्री परिमुज्यते इति न्यायात्, संयमोऽपि-सामायिकादिरूपः प्रथमान्तिमजिनयोविविकल्पः, इत्वरं सामायिक
छेदोपस्थापनीयं चेत्यर्थः, शेषाणां-मध्यमानां द्वाविंशतितीर्थकृतां यावत्कथिकमेवैकं सामायिक, न शेष छेदोपस्थाप|नादि, तथाकल्पत्वाव, सप्तदशाडा-सप्तदशमेदः पुनः, चः पुनरर्षे, सर्वेषां तीर्थकृतामभूत्, तेच सप्तदश मेदा ममी
दीप अनुक्रम
and
remona
wiewsaneliterary.cre
~135