SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] पोद्धा ॥ ३३ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः: + वृत्तिः) भाग - १ अध्ययनं [-], निर्युक्तिः [७] भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः णात्, तथा श्रुतविरोधञ्च तथाहि प्रज्ञापनायां भाषापदे सूत्रमिदं - " अणुसमयमविरहियं निरंतरं गेव्हई' इति, अत्र च प्रतिसमयग्रहणप्रतिपादनेन प्रतिसमयनिसर्गप्रतिपादनमपि द्रष्टव्यं गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गात्, एकान्तरग्रहणमोक्षाभ्युपगमे चाधिकृतसूत्रविरोधः, अथ सूत्र एव साक्षादुकं - "संतरं निसिरइ नो निरंतरं, एगेण समर्पणं गण्हइ एगेणं समएणं निसिरइ" इत्यादि, ततः कथमधिकृतसूत्रविरोधः, तदेतदयुक्तम्, सूत्रार्थसम्यक्परिज्ञानाभावात्, इह निसर्गोऽपि ग्रहणापेक्ष इति सान्तरोऽभिहितः, तथाहि - यथाऽऽद्यसमयादारभ्य प्रतिसमयं ग्रहणं नैवं निसर्गः प्रथमसमये तस्याभावादिति ग्रहणापेक्षयाऽसौ सान्तरस्तत उक्तं 'संतरं निसिरह नो निरंतर 'मिति, अथ ग्रहणमप्येवं निसर्गापेक्षया सान्तरमापद्यते, न चैतत्सूत्रे सान्तरमभिहितं तस्माद्यत्किञ्चिदेतद् व्याख्यानमिति, तदयुक्तम्, ग्रहणं हि स्वतन्त्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् ततो नैवादस्तदपेक्षया सान्तरं, निसर्गस्तु ग्रहणपरतन्त्रं अगृहीतस्य * निसर्गायोगादिति पूर्वपूर्वग्रहण समयापेक्षया सान्तरव्यपदेशः, यद्येवं तत एतत्सूत्रं कथं नीयते - एकेन समयेन गृह्णाति एकेन | निसृजतीति १, उच्यते, सान्तरं निसृजति नो निरन्तरमित्युक्तं, एतच्चावसीयते यत् एकेन समयेन गृह्णाति एकेन समयेन निसृजति किमुक्तं भवति । यानि यानि यस्मिन् यस्मिन् समये गृहीतानि शब्दद्रव्याणि तानि तानि तत्तद्ग्रहणसमयान न्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सान्तरो नो निरन्तर इति, अथवा एकेन - आधेन समयेन गृह्णाति 'सर्व वाक्यं सावधारणमिष्टितश्चावधारणविधि' रिति न्यायाद् गृह्णात्येष, न तु निसृजति, द्वितीयसमयादारम्य निसर्गस्य प्रवृत्तेः, प्रथमसमये पूर्वगृहीतस्यासम्भवाद, तथा पकेन- पर्यन्तवर्त्तिना समयेन निजति-निसृजत्येव, न तु गृह्णावि, भाष For P&Personal Use Only ~81~ ग्रहणनिसगयोः सा न्तरनिर न्तरवि चार: ॥ ३३ ॥
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy