________________
आगम (४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [१३०], भाष्यं H, विभा गाथा [१४०८], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
29-
9096
कालानुयोगो भावानुयोगश्च यथाविवक्ष सम्भवति, अथालोकरूपस्य क्षेत्रस्यानुयोगविवक्षा तर्हि न तत्रान्यानि द्रव्याणि सन्ति, येऽप्यगुरुलघुपर्यायास्तेऽपि प्रतीता एव, अमूर्तत्वादलोकाकाशस्य, कालश्च तत्र सन्नपि वर्तनादिरूपोन विवक्ष्यते, ब्यवहाराभावात् , तदभावश्चानाद्यनिधनतया प्रतीतत्वात्, ततोऽलोकरूपक्षेत्रानुयोगे न द्रव्यानुयोगस्य न कालानुयोगस्य नापि भावानुयोगस्य सम्भव इति क्षेत्रानुयोगे द्रव्यकालभावानुयोगानां भजना, कालानुयोगः पुनद्रव्यक्षेत्रभावानुयोगेषु भजनया, कालो हि नाम द्विधा भवति-पत्तनादिरूपः समयावलिकादिरूपश्च, तत्र यदि वर्तनादिलक्षणो विवक्ष्यते ततः समस्तद्रव्यक्षेत्रभावव्यापीति द्रव्यानुयोगे क्षेत्रानुयोगे भावानुयोगे च कालानुयोगस्य सम्भवः, अथ समयावलिकादिरूपस्य विवक्षा तर्हि (स) समयक्षेत्र एव नान्यत्रेति समयक्षेत्रगतद्रव्यक्षेत्रभावानुयोगेषु तदनुयोगस्य सम्भवो, न तदहि व्यक्षेत्रभावानुयोगेष्विति, | उक्तं च-"दवे नियमा भावो न विणा ते यावि खेत्तकालेहिं । खेत्ते तिण्हवि भयणा कालो भयणाएँ तीसुपि ॥१॥" (वि. १४०८) उत्कोऽनुयोगः, एतद्विपरीतोऽननुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तप्रतिपादनार्थमाहवच्छगगोणी खुजा सज्झाए चेव बहिरउल्लावो । गामेल्लए य वयणे सत्तेव य होंति भावम्मि ॥१३०॥
इह यथा नामादिभेदात् सप्तविधोऽनुयोगो वर्णितस्तथाऽननुयोगोऽपि यथासम्भवं वर्णयितव्यः, तत्र नामस्थापने सुगमे, द्रव्याननुयोगे तत्प्रसङ्गातो द्रव्यानुयोगे वत्सगावाबुदाहरणं, क्षेत्राननुयोगानुयोगयोः कुब्जा उदाहरणं, कालाननुयोगानुयोगयोः स्वाध्यायः, वचनाननुयोगानुयोगयोरुदाहरणद्वयं, तद्यथा-बधिरोष्ठापो ग्रामेयकश्च, भावे तु उदाहरणानि सप्त विश्यमाणानि । तत्र वत्सगोदृष्टान्तभावा इयम्-"जइ गोदोहतो जो पाडलाए वच्छगो तं बहुलाए मुयइ बाहुलेयं वा
बा.सू.२३
~280