________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-] निर्युक्तिः [ १०७ ], भाष्यं [-] वि० भा० गाथा [१२१५-१२१७, १२२०, १२२१ ], मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jan Education International
नेन मिथ्यात्वं मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजते, तथा चोकम् - "मयणा दरनिवलिया | निवलिआ य जह कोहवा तिविहा । तह मिच्छन्तं तिविहं परिणामवसेण सो कुणइ ॥१॥ (वि. १२२० ) ततोऽनिवर्त्तिकरणविशेषात् सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तिकरणतो ग्रन्थिमासा चाईदादिविभूतिसन्दर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषसामायिकलाभः, उक्तं च- "नासेइ सर्य व परिकम्मतो व जह कोदवाण मयभावो । नासइ तह मिच्छमओ, सयं व परिकम्मणाए वा ॥ १ ॥ अप्पुवेण तिपुंजं, मिच्छत्तं कुणइ कोदबोवमया । अनियट्टीकरणेण उ सो सम्मदंसणं लद्दह ॥ २ ॥ तिकराइपूर्य, दहुं अण्णेण वावि कज्जेणं । सुयसामाइयलंभो होज अभवस्स गंथिंमि ॥३॥” (वि. १२१५-७) सम्प्रति जलदृष्टान्तः, यथाहि - जलं मलिनमर्द्धविशुद्धं शुद्धं चेति त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोति, एवं वखदृष्टान्तेऽपि भावना कार्या, आह च - "जह वेह किंचि मलिणं, दरसुद्धं सुद्धमंबु वत्थं वा । एवं परिणामवसा, करे | सो दंसणं तिविहं ॥ १ ॥” (वि. १२२१) सम्प्रति प्रासङ्गिकमुच्यते एवं सम्यग्दर्शनलाभोत्तर कालमवशेषकर्म्मणः पल्योपमपृथक्त्वस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते पुनः शेषायाः सवेयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिः, तदनन्तरमव| शेषस्थितेरपि सङ्ख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशमश्रेणिः, तदनन्तरं भूयोऽप्यवशिष्टस्थितेः सङ्ख्येयेषु सागरोपमेष्वपगतेषु क्षपकश्रेणिरिति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषूत्पद्यमानस्याप्रतिपतितस्योत्कर्षतो द्रष्टव्या, अन्यथा अन्यतरश्रेणिरहितस्य सम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, भणितमानुषङ्गिकमिदानीं यदुदयात् सम्यक्त्वसामा
|
For Pitate & Personal Use Only
~246~
www.janlibrary.org