________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [-], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मङ्गलकरणसमर्थत्वात् स्वं परं च मङ्गलयतीति न कश्चिद्दोषः, द्वितीयपक्षेऽपि न मङ्गलोपादाननैरर्थक्यं शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, तथाहि कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं | गृह्णीयादिति मङ्गलोपन्यासेन मङ्गलमिदं शास्त्रमिति प्रबोध्यते, न चैवमनवस्था, प्रथममङ्गलोपन्यासे च शिष्यमतिमङ्गलपरिग्रहस्य कृतत्वात् अन्यमङ्गलाकाङ्क्षाया निवृत्तेः न च शास्त्रस्यामङ्गलत्वप्रसक्तिः, अन्यमङ्गलनिरपेक्षस्य तस्य स्वतो मङ्गलत्वात् मङ्गलं ह्यन्यदुपादीयते न शाखस्य मङ्गलत्वकरणाय, तस्य स्वत एव मङ्गलत्वात्, किन्तु १, शिष्यमतिमङ्गलपरिग्रहाय, ततः कथमन्यमङ्गलोपादानेऽनवस्थानिष्टौ शास्त्रस्यामङ्गलत्वमिति, ननु यदि शास्त्रं स्वतो | मङ्गलं तर्हि यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत्स्वकार्यप्रसाधनसमर्थमेव, तस्य तथारवभावत्वादिति कथमन्यमङ्गलोपादानं न निरर्थक मिति १, तदेतदसम्यक्, अभिप्रायापरिज्ञानात् इह विचित्रा भावानां शक्तयः, किश्चित्तथास्वरूपेण गृह्यमाणं स्वकार्यप्रसाधनसमर्थं यथा सुवर्ण, सुवर्णं हि सुवर्णरूपतया परिगृह्यमाणं स्वफलप्रदान समर्थ न लोष्ठादिरूपतयेति, किञ्चित्तथास्वरूपेणागृह्यमाणमपि यथा किञ्चिदनिष्टमन्तः समुत्थ व्याध्यादि कं, तद्धि तथास्वरूपेणाविदितमपि स्वफलं दुःखमुत्पादयति, मङ्गलमपि मङ्गलबुज्या परिगृह्यमाणं मङ्गलफलसाधनायालं नान्यथा साधुवत्, तथाहि साधुः सम्यग्दर्शनज्ञानचारित्रपरिणामपरिणतो भावितात्मा क्षान्तिनिधानं 'समणं संजयं दंत' मिति वचनात् मङ्गलभूतोऽपि मङ्गलबुद्ध्यैव परिगृह्यमाणः सन् प्रशस्तचेतोवृत्तेर्भव्यस्य मङ्गलकार्यप्रसाधको भवति, | यदि तु तथा न गृह्यते तर्हि तस्य कालुप्योपहतचेतसः सत्वस्य न भवतीति, एवं शाखमपि स्वतो मङ्गलमपि सत्
For Pivate & Personal Use Only
Jain Education International
~22~
www.jainelibrary.org