________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
मावश्यके उपोद्घाते
॥ ५९ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्ति: [ ३९, ४० ], भाष्यं [-] वि० भा० गाथा [६४८-६४९], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
माणसदवाईणवि, एवं तिविकप्पमेकेकं ॥ ३ ॥ " ( वि. ६४८, ६४९ ) अधुना द्वितीयगाथाव्याख्या - तत्रानन्तरगाथायां | कर्मद्रव्यवर्गणाः प्रतिपादिताः, सम्प्रति प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदवर्यन्ते क्रियते मिथ्यात्वादिसचिवैजींवेनिंवर्त्यते इति कर्म्म कर्म्मण उपरि कम्मोपरि, ' नाम नाम्नैकार्थे समासो बहुलमिति समासः, षष्ठीतत्पुरुषस्तु न प्राप्नोति, 'अव्यये 'ति प्रतिषेधात्, कम्मग्रहणप्रायोग्यवर्गणानामुपरीतिभावः, 'धुवे'ति ध्रुववर्गणा अनन्ता भवन्ति, तद्यथा-कर्मग्रहणप्रायोग्यवर्गणानामुपरि एकाधिकपरमाणू पचितातिसूक्ष्मपरिणामानन्तपरमाण्वात्मिका प्रथमा ध्रुववर्गणा भवति, तत एकोत्तरवृद्धया वर्द्धमानाः एता अपि धुत्रवर्गणा अनन्ता वेदितव्याः, ध्रुवा-नित्याः लोकव्यापितया सर्वकालावस्थायिन्य इति भावः, अन्तदीपकं चेदं ततश्चैतासां धुत्रत्वभणनेन प्रागुक्ता अपि कर्म्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम्, तासामपि सर्वत्र लोके सदैवाव्यवच्छेदात्, अन्यच्च - एता ध्रुववर्गणा वक्ष्यमाणाश्चाधुवाद्याः सर्वा अपि ग्रहणाप्रायोग्यवर्गणाः अतिबहुद्रव्योपचित्वेनातिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिका दिभावेनाग्रहणात् तदनन्तरमि - त्थमेवैकोत्तरवृद्ध्या वर्द्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति, एताश्च तथाविधपुलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि तत एता अध्रुवा इति व्यपदिश्यन्ते, अध्रुवा अशास्वत्यः, कदाचिन्न सन्त्यपीति भावः, ततः 'सुन्ना' इति 'सूचनात् सूत्र' मिति न्यायात् शून्यान्तरवर्गणाः परिगृह्यन्ते एकोत्तर वृद्ध्या, कदाचिच्छून्यानि - व्यवहितानि अन्तराणि यासां ताः शून्यान्तराः ताश्च ता वर्गणाश्च शून्यान्तरवर्गणाः, किमुक्तं भवति । - एता एकोच रवृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेतास्वेकोत्तरवृद्धिरन्तरान्तरा शुव्यति, तत एताः शून्यान्तरवर्गणाः, एता अध्य
Jan Education International
For Peace & Personal Use Only
~133~
ध्रुवाचा
वर्गणाः
॥ ५९ ॥
www.janelibrary.org