________________
भृगुकाण्डम्. अपरे पुनरावृत्तिं मन्यन्ते, नानागोत्रव्यवायात् यजमानधर्माणां बद्धक्रमत्वात्सकृत् प्रयोगे . सति क्रमकृतं वैगुण्यं प्रसज्यत इति । - तथा चापस्तम्बः 'नानागोत्रव्यवायादेव समानगोत्राणामार्षेयवरणमावर्तेतेत्येके मन्यन्ते' इति ॥ ३ ॥
___ इत्याश्वलायनोक्तप्रवराध्यायगोत्रसूत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डं व्याख्यातमिति ॥
उक्तानि सूत्रकाण्डानि सम्यग्ज्ञातवतां सताम् । गोत्रप्रवरकाण्डेषु वक्ष्यमाणेष्वधिक्रिया ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जयां परिभाषासूत्रकाण्डानि व्याख्यातानि समाप्तानि.
अतः परं भृगूणां गोत्रप्रवरकाण्डानि क्रमेण वक्ष्यन्ते ॥ अत्र श्लोकःबोधायनादिमुनिपुङ्गवपादपद्मप्राणामशीलशिरसा पुरुषोत्तमेन । प्रारभ्यते प्रवरगोत्रविवाहतत्त्वप्राकाशनाय विदुषां भृगुगोत्रकाण्डम् । इति ॥ तत्र प्रथमं तावद्बोधायनीयं भृगुगोत्रकाण्डमुदाहरिष्यामः--
भृगूणामादितो व्याख्यास्यामो वात्स्या मार्कण्डेया माण्डूकेया माण्डव्याः कांसय आलेखना दार्भायणाइशार्कराक्षा देवतायनाश्शौनकायना माधूकेयाः पार्षिकास्साम्प्रभायनाः पैलाः पैङ्गलायना दाभ्रेषकयो वाह्यकयो वैश्वानरयो वैहीनरयो