SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. कृत्वा चान्द्रायणानि प्रतिहतदुरितो मातृवत्पुत्रवच्चाप्यन्योन्यं मन्यमानौ सह परिचरतां दम्पती यावदायुः । अज्ञात्वाऽन्यस्वगोत्रप्रवरमुनिगणान्प्रत्यवाये पतन्तः स्युर्ज्ञात्वाऽन्यस्वगोत्रप्रवरमुनिगणान्ब्रह्मलोके वसन्ति ॥५॥ गोत्राणां कोटिसंख्यात्रितयमितिमतां दुर्ग्रहत्वाच्च तस्मात्सर्वेषां सर्वगोत्रप्रवरमतिफलां मञ्जरीमारभेऽहम् । सेयं गोत्रप्रफुल्ला प्रवरमतिफला मञ्जरी वैदिकानां सर्वज्ञानां बुधानां पदकमलदळेप्वस्तु पुष्पोपहारः ॥६॥ ___ अत्र बोधायनापस्तम्बसत्याषाढकुण्डिनभारद्वाजलौगाक्षिकात्यायनाश्वलायनादिभिः कल्पसूत्रकारैर्मत्स्यादिपुराणकारैर्भारतादीतिहासकारैर्मन्वादिभिस्स्मृतिकाररुप दिष्टान्प्रवराध्यायानुपलभ्यो दाहृत्यो दाहृत्य तत्तद्भाष्यकारमतानुसारेणैव गोत्रस्वरूपं गोत्रसङ्ख्यां समानगोत्रत्वं द्विगोत्रत्वं तत्कृतं चाविवाहं प्रवरस्वरूपं प्रवरसङ्ख्यां प्रवरविकल्पं समानप्रवरतां तत्कृतं चाविवाहं यथोपदेशं* यथाप्रज्ञ चाबहुश्रुतानां मन्दधियामुपकारार्थं ईश्वरप्रसादादाचार्यप्रसादाच्च वर्णत्रयाणां प्रवरान्व्याख्यास्यामः ॥ तत्र कल्पसूत्रपुराणस्मृतिकारैरेकेनैव क्रमेण गोत्रप्रवरकाण्डान्युपदिष्टानि । येनैव क्रमेण तान्युपदिष्टानि तेनैव क्रमेण तानि वक्ष्यमाणानि भूदेवानामबहुश्रुतानामुपकाराय सुखग्रहणाय चानुक्रमिष्यामः ॥ आदितस्तावद्गोत्रप्रवरोपदेशकर्तव्यताहेतुसन्दर्भगर्भाणि परिभाषासूत्रकाण्डान्युपदिष्टानि, तेषु च गोत्रप्रवरतत्सङ्कयाविधिपराः प्रत्यक्षश्रुतयः तैत्तिरीयाः शाखान्तरीयाश्च ॥ *शू-यथोद्देशं.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy