SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. ३४३ विश्वामित्राणां जमदग्नीनां च मिथो विवाहः । तथा धनञ्जयं बामरथ्यमुख्यांश्च विहाय विश्वामित्रगणस्य अत्रिगणस्य च मिथो विवाहः । धनञ्जयवामरथ्यादीनां विश्वामित्रैरत्रिभिश्च न विवाहः । कतादिकांश्च शौङ्गशैशिरीन् कपिलांश्च विहाय विश्वामित्राणां भराहजानां च मिथो विवाह इष्टः ॥ तथा प्रयोगपारिजाते आपस्तम्वः - विश्वामित्रो देवरातः मनुस्तन्तुस्तथौलकिः । वाल्मीकिश्चकितोलूको याज्ञवल्क्यश्च वालुहिः ॥ बृहदग्निः कालबलौ शवलो बक्षुलोहितौ । शालङ्कायनवारण्यौ कामकायनपूरणौ ॥ शालावतोऽग्निवैश्यश्च मदनः कौशिकोऽष्टमः । अजो माधुच्छन्दसश्च दैवश्रवधनञ्जयौ ॥ शुङ्गः कतश्शशिरिश्च पारिधाप्योऽघमर्षणः । सूनुः पनश्च धूम्राख्यो जठरस्त्वेकहव्यजः ॥ अष्टत्रिंशञ्च गोत्राणि विश्वामित्रगणस्स्मृतः । एतस्मिन्नपि चान्योन्यं न कुर्यात्पाणिपीडनम् ॥ अस्यार्थः - विश्वामित्रगणस्थानामष्टत्रिंशदृषीणां परस्परं न विवाहः समानश्वरत्वात् , गोत्रकर्तुर्विश्वामित्रस्यानुवृत्तेश्च ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनवमाधचार्यो दृतगोत्रप्रवरे षष्ठं प्रकरणम् . अथ सप्तमे प्रकरणे कश्यपगोत्रकाण्डः प्रस्तूयतेकश्यपा अथ तत्र स्युर्निध्रुवा रेभशाण्डलाः। एषां समानगोत्रत्वान्न विवाहः परस्परम् ॥६॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy