________________
३३४
गोत्रप्रवरनिर्णयः. कारमाह-तेषामुभयतः प्रवृणीतेति । तेषां शौगौशिर्यादीनां द्वयामुष्यायणानामुभयस्मादुभयगोत्रात्प्रविष्टकुलाजनककुलाच्च प्रवृणीत । प्रवरप्रकारमाह-एकमितरतो द्वावितरत इति । इतरतः इतरस्मात्प्रविष्टकुलात् एकमृषि इतरतः जनककुलादावृषी प्रवृणीत । यद्वा-प्रविष्टकुलाद्दौ जनककुलादेकं संयोज्य त्र्यापेयं प्रवरं कुर्यात् । प्रकारान्तरमप्याह-द्वावितरतस्त्रीनितरत इति । अस्यार्थः प्रविष्टकुलाद्दौ जनककुलात्त्रीन् । यहाप्रविष्टकुलात्त्रीन् जनककुलाद्दौ । एवं पञ्चायप्रवरं कृत्वा प्रविष्टजनकगोत्रद्वयवत्त्वं तत्सन्ततेरुभयगोत्रत्त्वं विधेयमित्यर्थः । एतत्कलौ निषिद्धम् । द्वयामुष्यायणात्पुत्रस्वीकारे तस्य त्र्यामुष्यायणत्वम् । उभयोरपि यामुष्यायणत्वे तजनितपुत्रस्वीकारे चतुरामुष्यायणत्वम् । ततोऽपि द्वयामुष्यायणस्य पुत्रस्वोकारे प. ञ्चामुष्यायणत्वादिना गोत्रसाङ्कर्य प्रसज्येत । एवं रौक्षायणप्रवरजनितस्य कपिलस्य द्वयामुष्यायणत्वात् भरद्वाजैविश्वामित्रैश्च विवाहो न । मतान्तरश्लोकःभरद्वाजाश्च कपयो गर्गाः रौक्षायणा इति ॥४०॥ चत्वारोऽपि भरद्वाजा गोत्रैक्यानान्विमिथः।
भरद्वाजाः कपयो गर्गाः रोक्षायणा इत्येते चत्वारोऽपि भरद्वाजाः । गोत्रकर्तुर्भरद्वाजस्य सन्ततित्वात् परस्परं नान्वियुः ॥ नैतत्स्वतन्त्रास्वतन्त्रौ द्वौ कपी कथितौ यतः॥४१॥ स्वतन्त्रस्य कपेस्तत्र भरद्वाजैस्सहान्वयः।
पूर्वश्लोके 'भरद्वाजाश्च कपयः' इति कपीनां भरद्वाजैस्सह विवाहो नेत्येतत् युक्तं नेत्यर्थः । यतः कारणात् कपी स्वतन्त्रास्वतन्त्रौ कथितौ तत्र स्वतन्त्रस्य कर्भरद्वाजैस्सह अन्वयोऽस्ति ।