________________
३२४
गोत्रप्रवरनिर्णयः. ऋषयो दश तेषां तु सन्ततावृषितां गताः ॥१२॥ यज्ञे प्रत्रीयमाणास्ते प्रवरा इति कीर्तिताः । ___ भृग्वङ्गिरसौ भरद्वाजादयो गोत्रकृतोऽष्टौ मुनयः. तेषां सन्ततो ये जातास्ते च यज्ञे प्रतीयमाणाः प्रवराः इति बोधायनादिभिः कीर्तिताः॥ गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ॥१३॥ ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ।
स्पष्टोऽर्थः ।। चत्वाराशुद्धभृगवस्त्रयोऽत्र जमदग्नयः ॥ १४ ॥ एते भृगुगणास्सप्त सप्ताथो गौतमा मताः। भरद्वाजास्त्रयस्सप्त शुद्धाङ्गिरस एव च ॥ १५ ॥ अथाङ्गिरोगणास्सत दशैवं मुनिना स्मृताः । ततोऽत्रयश्च चत्वारो विश्वामित्रास्ततो दश ॥१६॥ कश्यपाश्च वसिष्ठाश्च चत्वारस्स्युः पृथक्पृथक् । चत्वारोऽगस्तयश्चोनपञ्चाशत्प्रवरास्स्मृताः ॥१७॥
स्पष्टोऽर्थः ॥ आपस्तम्बमते पञ्च भृगवोऽष्टाङ्गिरोगणाः। अध्यादयो गणाः पञ्चेत्यष्टादशगणास्स्मृताः ॥७॥