SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३२० गोत्रप्रवरनिर्णयः. सर्वोपाधिविनिर्मुक्तं सर्वजगतामाश्रयं मायातीतं सर्वशं सर्वशक्ति स्वलीलाविशेषविहितजगत्सृष्टिस्थितिसंहारहवें निर्विकल्पं परं ब्रह्म प्रणम्य, अथ वक्ष्यमाणगोत्रप्रवरकृतो जामदग्न्यादीन् मुनीन्, सूत्रकृतो बोधायनापस्तम्बसत्याषाढहिरण्यकोशियाक्षवल्क्यप्रभृतीन्मुनींध प्रणम्य माधवाचार्यो गोत्रप्रवरनिर्णयाख्यं ग्रन्थं तनुते ॥ आराधितस्स सर्वेशः श्रौतस्मातक्रियापरैः । सन्तुष्टस्तत्फलं दद्यादैदिकेभ्यो न चान्यथा ॥२॥ अग्न्याधानादिश्रीतकर्मसु सन्ध्यावन्दनादिस्मार्तकर्मसु च निष्णातैवैदिकैः सम्यक्तुष्टस्स सर्वेशस्तेभ्यो वैदिकेभ्यो यथाविधिविहितकर्मफलं दद्यात्. अन्यथा तत्तत्कर्माकरणे तत्तत्कमफलं न ददाति. गोत्रप्रवरनिर्णयाशाने समानगोत्रप्रवरवधूविवाहे पातित्यमेव. न वैदिककर्माधिकारः, ततो नरकाद्यनर्थमेव विन्दतीति तदर्थ गोत्रप्रवरनिर्णयाख्यो ग्रन्थ आवश्यको भवतीत्यर्थः॥ बोधायनापस्तम्बाद्या मुनयो यस्य धारणात् । ब्रह्मलोकप्राप्तिमाहुः ज्ञानाद्राह्मण्यरक्षणम् ॥ ३ ॥ अज्ञानाहाह्मणत्वादिहान्यनर्थपरम्परा । तस्मात्सर्वेष्टसिद्ध्यर्थं सर्वानिष्टानवाप्तये ॥ ४ ॥ अल्पग्रन्थोऽप्यनल्पार्थः सम्यग्बालप्रबोधकः । अवश्यमध्येतव्योऽयं विज्ञातव्यश्च वैदिकैः ॥ ५॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy