SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३१८ भाष्ययुतं. . - एकार्षया विशस्त एव वैश्या उच्यन्ते॥१८॥ विट् क्षत्रमोजीयसी स्यादित्यादिव्यपदेशात् बहुवचनं वि. श इति । सर्वे विशो वैश्याः एकार्षयाः समानार्षेया भवितुमर्हन्तीति - ॥१८॥ ... वात्सप्रीति होता वत्सप्रिवदित्यध्वर्युः ॥ १९ ॥ अथासंप्रज्ञातबन्धुः आचार्यामुष्यायणमनु प्रबवीत ॥२०॥ आचार्यप्रवरं प्रवृणीत । सम्यक् ज्ञातः प्रवरो यस्य स संप्रज्ञातबन्धुः आचार्यामुष्यायणमाचार्यप्रवरमनुप्रब्रवीत आनुपूव्येण ह्यात् । आचार्यप्रवरेण प्रवृणीतेत्यर्थः ॥ सामर्थ्यात् ब्राह्मणस्यायं विधिः क्षत्रियाणां पुनरसंप्रज्ञातबन्धूनां पुरोहितप्रवर एव ॥ १९-२०॥ अथाह ताण्डिन एकार्षेयं सार्वणिकं समामनन्ति ॥२१॥ अहेति विनिग्रहार्थः । ताण्डिनो नाम छन्दोगाः । एकार्षेयं एकमेवार्षेयं सार्ववर्णिकं समामनन्ति पठन्ति ॥ २१ ॥ मानवेति होता मनुवदित्यध्वर्युः ॥ मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥२२॥ " , मानवेति होता प्रवृणीते मनुवादेत्यध्वर्युः । कुत एतदवगम्यते । मानव्यः मा [मानव] जातिसामान्याभ्यामित्यधिकारलक्षणयुक्ताः शब्देनोच्यन्ते । यद्यपि ताण्डिनां संदर्शनेन सर्वे मानवगोत्राः प्रभवन्ति । तथापि भिन्नविवाहं कुर्वन्तीत्येव प्रवरणमात्र एव कल्पितत्वात् ॥ यस्माद्धेतोः ब्राह्मणं प्रत्यक्षमेव श्रुतम् । द्विरुक्तिर्मङ्गलार्था ॥२२॥ इति कपदिस्वामिविरचितं आपस्तम्बप्रवरसृत्रभाष्यं । समाप्तम्.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy