SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ भाध्ययुतं. ___ इत ऊर्ध्वानध्वर्युवणीतेऽमुतोऽर्वाचो होतेति विज्ञायते ॥ ९ ॥ इत आर्षेयादारभ्य ऊर्ध्वानायुयान् अध्वर्युर्वृणीते यथा-- जमदग्निवदूर्ववदप्नवानवञ्चयवनवद्भगुवदिति । अमुतो मूलप्रकृतेरारभ्य अर्वाचः अर्वाक् जातान् होता वृणीते यथा-भार्ग वच्यावनाप्नवानौर्वजामदग्नयेति । एवं सर्वत्र ॥ ॥९॥ पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ॥ १० ॥ __पुर एनं दधातीति क्षत्रियवैश्ययोर्दाविहोमिकः अभिजन' विद्यावृत्तसहितः तस्य प्रवरेण राजा अभिषिक्तः प्रवृणीते । दर्शपूर्णमासयोरत्र च वचनात् ब्राह्मणोऽपि राज्यं प्राप्तः पुरोहितस्य प्रवरेण प्रवृणीते ॥ ॥ १०॥ भृगूणामेवाग्रे व्याख्यास्यामः ॥११॥ प्रवरव्याख्या प्रतिज्ञाता येषां प्रवरा वक्तव्यास्तेषां मध्ये भृगूणामेव गोस्सन्ततिजातानामेव ब्राह्मणानामग्रे प्रथमं व्याख्यास्यामः । किमर्थमिदमुच्यते । वक्ष्यमाणानां वत्सप्रभृतीनां वैन्या. न्तानां भृगुत्वं यथा स्यात् इति ॥ तेन तेषां 'भृगूणां त्वेति यथाधानं स्यात्' इति 'भार्गवो हाता भवति' इति ‘तेषां भार्गवः प्राशिणामेकस्स्यात्' इत्यत्र च ग्रहणमेषां स्यादिति । उक्तिक्रमादेव च सिद्ध अग्रवचनमग्र एव ये भृगवस्त इह वक्ष्यन्ते न द्वयामुप्यायणत्वेन पश्चात् भृगुत्वमापन्ना इति ख्यापनार्थम् । एवमविद्यमानभृगुशब्दानां मित्रयूनां च भृगुत्वमेवेति ज्ञापनार्थम् ।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy