________________
आश्वलायनप्रनरकाण्डम.
२८९
नविधानानामपि सत्रासनं भवति । प्रायेणाङ्गसमुदायस्य अविराधित्वात् । ये केचन विरोधिनस्ते गृहहपतेरविरोधित्वेन कर्तव्या इति ॥३॥
ननु गृहपत्यविरोधेन सत्रे कृते येषां विरोधस्तेषां फलसम्बन्धो न स्यादित्यत आह
तस्य राहिमनु राशिः सर्वेषाम् ॥ ॥४॥
तस्य गृहपतेः फलसिद्धिमनु सर्वेषां सत्रिणां फलसिद्धि. भवत्येव । कुतः! 'तन्मुखाः सत्राण्यासते' इति वचनात् । अत एव सूत्रकारस्यायमेव पक्ष इति गम्यते ॥ ॥४॥ प्रवरास्त्वावर्तेरनावापधर्मित्वात् ॥ ॥५॥
ओप्यन्त इत्यावापा आहवनीयाः, ते च प्रवरेण धर्मेण धर्मिणः तस्य प्रवरस्याहवनीयसंस्कारत्वादाहवनीयधर्म इत्युच्यते, अत आहयनीयवहुत्वात् प्रतिप्रधानमावर्तन्त इत्युच्यते आवापधर्मित्वादित्ययमर्थः । आवापानामाहवनीयानां प्रवरं प्रति धर्मिस्वादिति । एवं प्रवरानुक्रमणस्य प्रसङ्गमापाद्यानन्तरं प्रवराननुक्रमिष्यति 'जामदग्ना घत्साः' इत्येवमादिना ग्रन्थेन । तत्तदनुक्रमणस्येदं प्रयोजनं श्रुतायेतावन्मात्रमस्ति । कस्यांचिदेवं श्रूयते 'आर्षेयान् वृणीते आम्नातानृषीन् मन्त्रकृतो वृणीते न चतुरो वृणीते न पश्चातिवृणीते ' इति । अयमर्थः, आर्षेयवरणस्य मन्त्रकृत्त्वं विशेषणत्वेनोच्यते । अतो ये आम्नातानामृषीणां मन्त्रकृत्त्वेनाम्नायन्ते तेषामेकाहाहीनानां यथेष्टसङ्ख्याकानां वरणे प्राप्ते 'न चतुरो वृणीते न पञ्चातिवृणीते' इति चतुर्णामति. पश्चानां च प्रतिषेध इति वाक्यत्रयमस्यां श्रुताविति वर्णयन्ति । अन्यस्यामन्यथा श्रूयते । 'आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो घृणोते न पश्चातिवृणीते' इति । अवमर्थः । ‘त्रीन् वृणीते' इत्येवात्र विधिः, इतरेषां कश्चिदवयुत्या