________________
आश्वलायन प्रवर काण्डं
नारा य णी य वृति स हि त म.
आश्वलायनश्रौतसूत्रे उत्तरषटे
षष्ठाध्याये दशमी कण्डिका. सर्वे समानगोत्रास्स्युरिति माणगारिः कथं ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति ॥ ॥ १ ॥
सत्रायुक्तानि तेषां व बहुयजमानत्वमुक्तम् । बहुषु च समानार्षेयाः भिन्नार्षयाश्च संभवन्ति । तत्र भिन्नार्षयाणां सत्रासन नास्तीति गाणगारिराचार्यों मन्यते । कुतः? कथं ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति, भिन्नार्षेयत्वे सत्येवमादीनि कथं भवेयुरित्यर्थः । अतः सर्वे सत्रिणः समानगोत्राः स्युरित्युक्तम् । आर्षेयः प्रवर इति पर्यायौ । ऋषिरिति वंशनामधेयभूता वत्सबिदार्टिषेणादयः शब्दा उच्यन्ते । गोत्रशब्दः 'अपत्यं पौत्रप्रभृति गोत्रम्' इत्येवं पारिभाषिकोऽस्ति । अन्यथा च अपारिभाषिक एवास्ति । यथोक्तं भगवता बोधायनेन-'विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयोऽगस्त्याष्टमानां यदपत्यं तद्वोत्रमित्युच्यते' । अयमर्थः । एतेषामपत्यमिति के स्मर्यन्ते ते तद्गोत्रभित्युच्यन्ते । यथा-जमदग्नेर्गोत्रं वत्सादयः । तथा भौतमस्यायास्थादयः । भरद्वाजस्य दक्षगर्नादयः । तथाऽत्र्यादीनां स्वस्ववा इति । तथाऽऽर्षेयगोत्रशब्दयोः भिन्नविषयत्वं शिष्टव्यवहारे दृष्टम् । यथाऽऽह वाशव