________________
१९६
गर्गभरद्वाजकुलविवाहविचारः. कुत्साः, तेषां प्रवरः आङ्गिरसमान्धातृकौत्सेति । एतेषामङ्गिरोगणत्वेन हरितेन ऋषिद्वयानुवृत्तरभावात् समानप्रवरकत्वाभावः । तेऽपि हरिताम्बरीषयौवनाश्वमान्धातृकुत्साः षट् मिथो नोदहेयुरिति तत्रैव सार्बभौमेन प्रतिपादिताः । एवं कश्यपगणे गणाधिपतिः कश्यपः तस्य प्रवरः काश्यपावत्सारैनध्रुवेति तद्गणप्रविष्टाः शण्डिलदेवलासिताः तेषां व्यायः देवलासितेति तेऽपि काश्यपावत्सारनैध्रुवरेफशण्डिलदेवलासिताः सप्त मिथो नोबहेयुरिति तत्रैव प्रतिपादिताः । एवं वसिष्ठगणे गणाधिपो वसिष्ठः । तस्य वासिष्ठेत्येकः प्रवरः तद्गणप्रविष्टसंकृतिपूतिमाषाणां व्यायः शाक्त्यसांकृत्यगौरवीतेति तेऽपि गणाधिपतिना वसिष्टेनासमानप्रवराः सर्वेऽप्येते वसिष्ठेन्द्रप्रमदभरद्वसुपराशरशक्तिकुण्डिमैत्रावरुणपूतिमाषसंकतिगौरवीताः दश मिथो नोबहेयुरिति दशनिर्णये तत्रैव प्रतिपादिताः तेनैव सार्वभौमेन । ततश्च
एकद्वयर्ण्यन्वयाच्चैक्याब्रिषिहा ये करग्रहे ।
वक्ष्ये तान् संकलय्याहं समानप्रवरान् स्फुटम् ॥ इति प्रथमश्लोकप्रतिज्ञायां 'एकद्वयर्ण्यन्वयाञ्चक्यात्' इति करनहनिषेधकानां एकर्ण्यनुवृत्तिऋषिद्वयानुवृत्तिऋषित्रयानुवृत्तिसगणत्वानां तत्तद्गणघटकेषु येषु सम्भवः तान् समानप्रवरान् संकलय्य वक्ष्ये इति तच्छब्दोपात्तानां पूर्वोक्तविवाहनिषेधकनिमित्तविशिष्टानां तेषा समानप्रवरत्वोक्त्या स्वप्रवरघटकऋषिद्वयादिघटितप्रवरकत्वस्वघटितग
घटकत्वान्यतरत्समानप्रवरत्वमिति सार्वभौमीयाभिप्रायो ज्ञायते । एवं च त्रिप्रवरगार्थस्य कपिगणानुप्रविष्टत्वे तत्समानप्रवरकस्य तस्य सार्वभौमादिभिः तद्गुणेनाभिधानात् पूर्वोक्तसंख्यापरिच्छेदादिविरोधाश्चति न किंचिदेतत् । एवं वाय॑श्वस्य सूत्रकारेण