SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्री:. पट्टाभिरामशास्त्रिकृतः गर्गभरद्वाजकुलविवाहविचारः. अत्र तावत्सर्वेषां ब्राह्मणानां विवाहसाधुताऽसाधुतानिर्धारणोपयु- . क्तः सयुक्तिकः प्रवरशास्त्रारम्भ इति सार्वजनीनमेतत् । ___ तत्र भारद्वाजानां गार्याणां च मिथो विवाहस्साधीयान्न वेति सन्देहे प्राञ्चः भारद्वाजस्त्वग्निवैश्योर्जायनौ शैन्यशशिरी । सर्वस्तम्बः कुशश्शुङ्गः गार्याङ्गिरसवान्दनाः ॥ आत्कीलो मातवचसो बार्हस्पत्यस्तथा कतः । ऋक्षस्सप्तदशान्योन्यं न कुर्युः पाणिपीडनम् ॥ इत्यादिना गार्ग्यसामान्यस्य भारद्वाजैविवाहो निषिद्धयते इति वदन्ति । अत्र परे प्रत्यवतिष्ठन्तेपञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः । भृग्वङ्गिरोगणेष्वेवं शेषेप्वेकोपि वारयेत् ॥ इत्यनेन पञ्चप्रवरगार्ग्यस्यैव विवाहः प्रतिषिद्धः, न तु त्रिप्रवरस्यापि ; तस्य ऋषिद्वयानुवृत्तिरूपबाधकाभावात् । तथाहि-आङ्गिरसबार्हस्पत्यभारद्वाजेति त्रिप्रवरो भारद्वाजानाम् । आङ्गिरसगार्यशैन्येति त्रिप्रवरो गार्याणाम् । तथा च अङ्गिरोरूपैक 25
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy