________________
प्रवरदर्पणम्.
१८७ स्वगोत्राज्ञाने तु सत्याषाढः-अथानाज्ञातबन्धोः पुरोहितप्रवरेण वा आचार्यप्रवरेण वेति । यत्तु 'गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमिष्यते' । इति तदाचार्यगोत्राज्ञाने श्राद्धादिविषयं ज्ञेयम् ॥
यदपि मीमांसकैः ‘अत्योर्षयस्य हानं स्यात्' इत्यत्र 'एकं वृणीते द्वौ वृणीते' इत्युदाहृत्य 'त्रीन्वृणीते' इति विधिः । एकमित्याद्यवयुत्यानुवाद इत्युक्तं पञ्चायषडाषेयादेरपि त्रयाणामेव वरणे नाधिकार एव, न ह्येवमस्ति त्र्योर्षेय एवाधिक्रियते इति । तदपि नाद्रियन्ते कल्पकाराः । ते हि 'यथर्षि मन्त्रकृतो वृणीते' इति श्रुतेरेकार्षयद्वयोर्षेययोरप्यधिकारमाहुः । कथं तर्हि 'न च तुरो वृणीते न पञ्चातिवृणीते' इति निषेधः । न हि प्रवराः पश्यन्ते ॥ __ उच्यते-तस्य द्विगोत्रप्रवरत्वात् । तथाहि-आश्वलायनेन द्विगोत्रानुक्त्वा 'तेषामुभयतः प्रवृणीते एकमेकतो द्वावितरतो द्वौ वैकतस्त्रीनितरतो न हि चतुर्णा प्रवरोस्ति न पञ्चानामतिप्रवरः' इति द्विगोत्रविषयो न चतुर इत्यादि निषेध उक्तः । नारायणवृत्तावपि मीमांसकमतमुपन्यस्य 'यथर्षि मन्त्रकतो वृणीते न चतुरो न पञ्चाति वृणीते' इति श्रुत्यन्तरवशादत्र्योर्षयस्याप्यधिकारः । तत्र सर्वेषां वरणे प्राप्ते न चतुर इत्यादिना चतुरादिनिषेध इति कल्पकारा इत्युक्तम् । न च वैधस्य निषेधे विका ल्पापत्तिः । 'न प्रथमयज्ञे प्रवृज्यात् दीक्षितो न ददाति न जुहोति' इतिवत्सावकाशनिरवकाशन्यायात् ॥
अथैतत्प्रायश्चित्तं मदनपारिजाते
परिणीय सगोत्रां तु समानप्रवरां तथा । त्यागं कृत्वा द्विजस्तस्यास्ततश्चान्द्रायणं चरेत् ॥