SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६. प्रवरदर्पणम्. नोक्ताः । शाक्त्यायनः श्रोण्यः सनकः इति मात्स्योक्ताः । एषां शुनकानां शुनकेति वा गार्ल्समदेति वैकः प्रवर इति बोधायनः । भार्गवगार्न्समदेति द्वौ वेति कात्यायनः । व्यत्ययो वेति सत्याषाढः । भार्गवशौनहोत्रगार्ल्समदेति त्रयो वेत्याश्वलायनः । एषां वैकल्पिकेऽपि प्रवरे परस्परमविवाहः 'एषामविवाहः' इति कात्यायनोक्तेः । पूर्वैस्तु भवत्येव । वेदविश्वज्योतिषां त्रयः भार्गववैदविश्वज्योतिषेति कात्यायनः । इति सप्त भृगवः. अथाङ्गिरसः-तेऽत्र त्रिविधाः गौतमा भारद्वाजाः केवलागिरसश्चेति । तत्र गौतमानां दश गणाः-आयास्याः शरद्वन्तः कौमण्डाः दीर्घतमसः औशनसाः कारेणुपालयः राहूगणाः सोमराजकाः वामदेवाः बृहदुक्थाः चेति । औतक्थः औशिजश्च हौ गौतमाविति केचित् । काक्षीवता अपीत्याश्वलायनः । तत्र आयास्याः श्रोणीचेषकः वाक्षिः मूढरथः सत्यकिः स्वैदेहः कौमारवत्यः ताण्डिः दर्भिः देवकिः सात्यमुग्रीकः बाह्यः बौम्यः नैकरिष्टिः स्तैषकिः किलालिः कारेणिः कठोरः कासीकः काक्षिवः पार्थिवः इत्यायास्यास्तेषां त्रयः प्रवराः आङ्गिरसायास्यगौतमेति । शरद्वन्तः-अभिजितिः रौहिण्यः क्षीरकरम्भः सौमुचयः सौयामुनः औपबिन्दुः राहूगणः गणिः भाषण्यः इति एषां त्रयः आङ्गिरसगौतमशारद्वन्तेति बोधायनः । औतथ्याः कात्यायनोक्ताः । तौलेयः अभिजितः नैषकिः लौकाक्षिः करगोण्यः क्षीरकरण्टः क
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy