________________
१४४ .
समाप्तिसूत्रकाण्डम. त्रत्वे “अपत्यं पौत्रप्रभृति गोत्रम्” इति पाणिनीयसूत्रमगस्त्याष्टमानां यदपत्यं तद्वोत्रमिति च बोधायनीयं सूत्रमुपपन्नाथं भवतीति । स्थितमेतदगस्त्याष्टमानां सप्तर्षीणामपत्यमृषिसंज्ञं पित्रादीनां पुत्रादीनां च गोत्रमिति । भवन्ति चात्र श्लोकाः--
अपत्यं पौत्रप्रभृति गोत्रमित्याह पाणिनिः । सप्तर्ण्यगस्त्यापत्यं तु गोत्रं बोधायनोब्रवीत् ।। पाणिनीयं तु सामान्यं विशेषे पर्यवस्यति । बोधायनीये तदपि सामान्यमृषिसंज्ञिकम् ॥ सप्तयगस्त्यापत्यं यदृषिसंज्ञं तदुच्यते । गोत्रमित्येष पिण्डार्थो गोत्रलक्षणयोईयोः । ऋषीणां प्रवरानुक्ता पूर्व बोधायनः पुनः । गोत्राणां त्वित्यतश्श्लोकाद्गोत्राणां वरणं ब्रुवन् । ऋषीणामेव गोत्रत्वं पूर्वोक्तस्यार्थ मब्रवीत् । आर्षेयवरणं चोक्ता गोत्राणां वरणं ब्रुवन् ।। ऋषीणामेव गोत्रत्वं पूर्वोक्तमवदत्स्फुटम् । सप्तर्घ्यगस्त्यापत्यानां गोत्रत्वं द्विविधं मतम् ।। पित्रादीनां च तद्रोत्रं पुत्रादीनां च तन्मतम् । उभयान्प्रति गोत्रत्वं गोत्रिणामिति गृह्यताम् ।। अगस्त्याष्टमसप्तानां बहुशो गोत्रकारताम् । वदन्मत्स्यो हरिस्तेषां सगोत्रत्वं ब्रवीति नः ।। न भवत्ययाजनीय इत्यनेन गोत्रप्रवरविज्ञानं सर्वपापनाशकं दर्श
पूर्वोक्तार्थ.
त्रिविधं.